________________ तत्त्वार्थाधिगमसूत्रम् [अन्यायः 7 'अधुना निक्षेपमार्गणाकाले ब्रवीति-न सुष्ठु स्मरामि किं चत्वारि शतान्यर्पितानि तव तदा अथ पञ्च शतानीति ? / यदर्पितं तद् देहीति, निक्षेपकस्य गोपायिता प्रत्याह--चत्वार्येवेति / एवं परेण निक्षिप्तस्य परविस्मरणकृतस्य शतस्य ग्रहणं येन करणतामापन्नेन क्रियते स सत्यव्रतातिचार इति / साकारमन्त्रभेद इति / आकारः शरीरावयवसमवायिनी क्रियाऽन्तर्गताकूतमूचिका तेन विशिष्टेनाकारेण सहाविनाभूतो योऽभिप्रायः स साकारमन्त्रस्तस्य भेदः-प्रका. शनम् / एतदुक्तं भवति-अनधिकृतसन्निधौ चेष्टाविशेषैः स्वाकूतप्रकाशनमाकारः / तमेव स्पष्टतरमुदाहरति-पैशुन्यं गुह्यमन्त्रभेदश्चेति / प्रीतिं शूनयतीति पिशुनस्तद्भावः पैशुन्यम्, द्वयोः प्रीतो सत्यामेकस्याकारैरुपलभ्याभिप्रायमितरस्य तथा कथयति यथा प्रीतिः प्रणश्यतीति / गुह्यं-गृहनीयं न सवेस्मै यत् कथनीयम् / मन्त्रणं मन्त्रो-गुप्तभाषणं राजादिकार्यसम्बन्धस्तस्य भेदः-प्रख्यापनम् / एवमेतत् सत्यवतमप्यस्तातिचारं सम्यगनुपालनीयमिति // 21 // स्थूलादत्तादानविरतेरप्यमी पश्चातिचाराः परिहार्याः नवर सूत्रम्-स्तेनप्रयोग-तदाहृतादान-विरुद्धराज्यातिक्रमस्थूलादत्तादानविरमणवतस्यातिचाराः पञ्च हीनाधिकमानोन्मान-प्रतिरूपकव्यवहाराः // 7-22 // टी-स्तेनाः-चौरास्तान् प्रयुक्ते-हरत यूयं इति हरणक्रियायां प्रेरणमभ्यनुज्ञानं वा प्रयोगः, अथवा परस्वादानोपकरणानि कतरीधघरकादीनि। तदाहृतादानमिति तच्छन्देन स्तेनपरामर्शः तैराहृतम्-आनीतं कनकवस्त्रादि तस्यादानं-ग्रहणं (अल्प)मूल्येने मुधिकया वा। विरुद्धराज्यातिक्रम इति / विरुद्धयोनृपयोः राज्यं तस्यातिक्रमः- अतिलचनमाक्रमणम्, अन्यतरराज्यनिवासिन इतरस्य राज्यं प्रविशन्तीतरराज्यनिवासिनो वाऽन्यतरराज्यमभिगच्छन्तीति विरुद्धराज्यातिक्रमः / स चानेकप्रत्यवायः। हीनाधिकमानोन्मानमिति / हीनंन्यून अधिकं-अतिरिक्तं मानं उन्मानं वा। तत्र मान-कुडवादि। उन्मानं-तुलादि। हीनं मानमुन्मानं वा अन्यदानकाले करोति / स्वयं पुनर्गृहन्नधिकं करोति / प्रतिरूपकव्यवहार इति / प्रतिरूपकः-तादृशः तस्य विविधमवहरणं व्यवहारः-प्रक्षेपः प्रतिरूपकप्रक्षेप इतियावत् / यद् यत्र घटते ब्रीद्यादि तैलादिषु पेलञ्जिवसादि तत् तत्र प्रक्षिप्य विक्रीणीत इति / स्तेनप्रयोगादयः कृतद्वन्द्वाः पश्चास्तेयाणुव्रतस्यातिचारा बोद्धव्याः // सम्प्रति भाष्यमनुस्रियते--- भा०--एते पञ्चास्तेयातस्थातिचारा भवन्ति / तत्र स्तेनेषु हिरण्यादिप्रयोगः / / स्तेनैराहतद्रव्यस्य मुधा ऋयेण वा ग्रहणं तदाहृतादानम् // 1 मार्गणकाले ' इति डा-पाठः / २'कूटसूचिका' इति ड पाठः / 3 अन्यथाकृतनिधी चेष्टाविशेषः' इति पाठः / 4 'नाधिकया' इति इ-पाठः। 5 'पालनादि 'पलब्यादि' इति पाठौ। 6 'इतस्य द्रव्यस्य' इति घ-पाठः।