________________ सूत्र 21] . स्वोपज्ञमाष्य-टीकालङ्कृतम् टी०-एते पञ्चेत्यादि / एत इति सूत्रोक्ताः पश्चैति पञ्चैव, मिथ्योपदेशाद्य इति नामग्राहमाचष्टे / स्थूलमृषापरित्यागे न असत्यं वक्तव्यमित्यत्र सत्यवचनस्थातिचारा भवन्ति / तत्र मिथ्येत्यादिषु पञ्चस्वतीचारेषु मिथ्योपदेशस्तावत् / नामशब्दः क्रमावद्योतकः / प्रमत्तस्य वचनं परपीडाजननम्-वाह्यन्तां खरोष्ट्राः हन्यन्तां दस्यव इति, यथा अर्थः स्थितस्तथा वचनोपदेशः साधुः, तद्विपरीतस्त्वयथार्थवचनोपदेशः यथा परेण पृष्टः सन्देहापनेन सथोपदेश इति / विवादेष्वित्यादि / विवादः-कलहः तत्रान्यत्रान्यतरस्यातिसन्धानोपायमुपदिशति, अतिसन्धानं-छलनम् / आदिशब्दात् फाणितकबूतग्रहणम् / एवमादिः-एवंप्रकारः सर्वे एव मिथ्योपदेशोऽवसेयः / / भा०-रहस्याभ्याख्यानं नाम स्त्रीपुंसयोः परस्परेणान्यस्य वा रागसंयुक्तं हास्यक्रीडासङ्गादिभिः रहस्येनाभिशंसनम् // टी-रहस्येत्यादि / रहस्येन कर्मणाऽभ्याख्यानं स्त्रीपुंसयोः परस्परेणेति प्रतारणद्वारेण-यदि वृद्धा स्त्री ततस्तस्यै कथयति-अयं तव भर्ता कुमार्यामतिप्रसक्तः, अथ तरुणी तत एवमाह-अयं ते भर्ता प्रौढचेष्टितायां मध्यमवयसि योषिति प्रसक्तस्तथाऽयं खरकामो मृदुकाम इति वा परिहसति / तथा स्त्रियमभ्याख्याति भर्तुः पुर:-पत्नी ते गर्हयत्येवमयं मां रहसि कामगर्दभः खलीकरोतीत्यादि / अन्यस्य वेति / दम्पतीव्यतिरिक्तस्य वैकैकस्य पुंसः स्त्रिया वा तत्कालयोग्यम् / रागसंयुक्तमिति दम्पत्यारन्यस्य वा येन रागः-प्रहर्ष उत्पद्यते तेन सादृशा रहस्येनानेकप्रकारेण कर्मणाऽभिशंसनमिति / हास्येत्यादि / अभ्याख्याताऽपि परिहासक्रीडानुबन्धात् तादृशं भाषते, नाभिनिवेशेन / हास्य-परिहासः सैव क्रीडा, आसक्तिः आसङ्ग:-अनुबन्धः। आदिशब्दः प्रकारवचनः / हास्यक्रीडाप्रकारैः, अथवा हास्यप्रकारैः क्रीडाप्रकारैर्वेति पृथगभिसम्बन्धः॥ - भा०--कूटलेखक्रिया लोकप्रतीता // न्यासापहारो विस्मरणकृतपरनिक्षेप. ग्रहणम् // साकारमन्त्रभेदः पैशुन्यं गुह्यमन्त्रभेदश्च // 21 // टी-कूटलेखक्रिया लोकप्रतीतेति अत्यन्तप्रसिद्धा सुज्ञाना, मुद्राक्षरादिविन्यासः कूटतुल्य इति / अत्रापि यत् तद् भूर्जत्वगादिन्यस्तं च वचनं तत् कूटलेखक्रियाशब्देनोच्यत इति सत्यव्रतातिचारः / न्यासापहार इत्यादि / गोपायनाय स्वद्रव्यार्पणमन्यस्य न्यासः तस्यापहारः-अपलापः सुश्लिष्टवचनेन / एतदेव स्पष्टयति-विस्मरणकृतपरनिक्षेपग्रहर्ण विस्मरणेन कृतं परनिक्षेपस्य ग्रहणम्-येन निक्षिप्तानि पञ्च शतानि, शतसङ्ख्या विस्मृता, सा च, 1 * योतनार्थः' इति अ-पाठः / 2 ' लोके प्रतीता' इति क-ग-पाठः। 3 ' भेदैः ' इति ग-पाठः / ४'भेदेव' हात ग-पाठः।