________________ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 7 भाटकशकटाद्याजीवः परित्याज्य एवान्यस्मादृते जीवनोपायाद् , बलीव दीनां यथोचितभारादपि किश्चिन्यूनभारारोपणं तृणपानीयाभ्यवहारोऽत्युष्णवेलायां च परिमोक्षणम् / द्विपदानि तु यं मारमात्मनोत्क्षेप्तुमवतारयितुं च शक्नुवन्त्यक्लेशेन तावत आरोपेणापदेशः / तेषामेव घानपाननिरोध इति पञ्चमोऽतिचारः / तेपामिति द्विपदचतुष्पदानामन्नपाननिरोधोऽप्रयोजनः परिहरणीय एव / सप्रयोजनं तु सापेक्षं कुर्यात् / दुर्विनीतानामपत्यादीनां मन्दतीक्ष्णाशयानामुंदन्यतां ज्वराद्यभिभूतानां चान्नपानं निरुणद्धि / स्वभोजनवेलायां तु ज्वरितादेरन्यान् नियमत एव तावद् भोजयित्वा स्वयं भुञ्जीतेत्युपदेशः। अहिंसावतस्यातिचारा भवन्तीत्यव्यतिकर दर्शयति / समासतोऽणुव्रती सर्वमेव बन्धादि प्रदर्शितमनुकमाया जहदवश्यंभाविनि प्रयोजनेऽनुतिष्ठनातिचरति स्थूला प्राणातिपातविरतिमिति / / 20 // स्थूलमृषावादविरतेरविचाराभिधित्सयेदमाहस्थूलमृपावादविरम- सूत्रम्-मिथ्योपदेश-रहस्याभ्याख्यान-कूटलेखणव्रतस्यातीचाराः पञ्च क्रियान्न्यासापहार-साकारमन्त्रभेदाः॥७-२१ // टी-मिथ्योपदेशः-असदुपदेशः परेणान्यस्यातिर्सन्धानं स्वयं वाऽतिसन्धानमन्यस्येति / रह:-एकान्तस्तत्र भवं रहस्यं रहस्येनाभ्याख्यानम्-अभिशंसनमसदध्यारोपणं रहस्याभ्याख्यानम् / कूट-असद्भूतं लिख्यत इति लेखः करणं क्रिया कूटलेखक्रिया अन्यमुद्राक्षरविम्बस्वरूपलेखकरणमिति / न्यस्यते-निक्षिप्यत इति न्यासः रूपकाद्यर्पणं तस्यापहारःअपलापः, योञ द्रव्यापहारः परस्वस्वीकरणलक्षणः स न विवक्षितः, तस्यादत्तादानविषयत्वात, यत् तत्र वचनमपलापकं येन करणभूतेन न्यासोऽपहियते -अपलप्यते तद् वचनं न्यासापहारः / आकारोऽङ्गुलिहस्तभ्रूनेत्रक्रियाशिरःकम्पादिरनेकरूपः परशरीरवर्ती, तेन तादृशा आकारेण सहाविनाभूतो यो मन्त्रो-गूढः पराभिप्रायस्तमुपलभ्य सहाकारं मन्त्रमसूययाऽऽविकरोत्येष साकारमन्त्रभेदः प्रकाशनम् / मिथ्योपदेशादयः कृतद्वन्द्वाः पश्चातिचाराः स्थूलानृतविरतेरिति / सम्प्रति भाष्यमनुत्रियते भा०-एते पश्च मिथ्योपदेशादयः सत्यवचनस्यातिचारा भवन्ति / तत्र मिथ्योपदेशो नाम प्रमत्तवचनमयथार्थवचनोपदेशो विवादेष्वतिसन्धानोपदेश इत्येवमादिः॥ ३'मौदन्यवा' इति पाठ 1' पणादेशः' इति ड-पाठः। २'मतीक्ष्ण ' इति शु-पाठः। 4 'सन्धापन' इति -पाठः। ५'मिशमनमध्यारोपण' इति ज-पाठः /