________________ सूत्र 20 ] . स्वोपज्ञभाष्य-टीकालङ्कृतम् टी०-तद्यथेत्यनेन सम्बन्धमाचष्टे / यथा तदेतदतिचौरजातं क्रमेण व्रतादिषु सम्बध्यते संप्रति तथोच्यते / प्राक् तावत् स्थूलप्राणातिपातव्रतमुक्तं तस्यामी पश्चातिचारा भवन्तीति निर्दिशतिस्थूलप्राणातिपातविर. सूत्रम्-बन्ध-वध-च्छविच्छेदातिभारारोपणामणवतस्यातीचाराः पश्च नपाननिरोधाः // 7-20 // टी-तत्र बन्धन बन्धः-संयमनं रज्जुदामकादिभिः, हननं वधः-ताडनं कशादिमिः, छविः-शरीरं त्वग् वा तच्छेदः-पाटनं द्विधाकरणं, भरणं भारः-पूरणं अतीव-बाढं सुष्ठु भारोऽतिभारस्तस्यारोपणं-स्कन्धपृष्ठादिस्थापनमतिभारारोपणम्, अन्नं अशनादि, पानं पेयमुदकादि तयोरदानं निरोधः। सर्व एव कृतद्वन्द्वा निर्दिष्टाः स्थूलप्राणातिपातविरतेरतीचाराः // भा०-त्रसस्थावराणां जीवानां बन्धवधौ त्वछेदः काष्ठादीनां पुरुषहस्त्यश्वगोमहिषादीनां चातिभारारोपणं तेषामेव चन्निपाननिरोधः अहिंसाबतस्यातिचारा भवन्ति // 20 // ___टी०-प्रसस्थावराणामित्यादि / त्रस्यन्तीति त्रसा:-द्वित्रिचतुःपञ्चन्द्रियाः / तिष्ठन्तीति स्थावराः स्थानशीला वृक्षादयो यथासम्भवमायोज्याः / द्रव्यभावप्राणैरजीवन् जीवन्ति जीविष्यन्ति चेति जीवाः तेषां प्रसस्थावराणां जीवानां बन्धवधौ, तत्र बन्धः शङ्खपिपीलिकादीनामपि सम्भवति / स च प्रायो निष्प्रयोजन इति नानुष्ठेयोऽणुवतिना, उत्सगतो गृहिणा तादृशान्येव द्विपदचतुष्पदादीनि परिग्राह्याणि यान्यबद्धान्येवाऽऽसते, असम्भवात् तादृशामन्यत्र बन्धः सप्रयोजनः सोऽपि सांपेक्षः, दयावता नातिगाढमूढप्रन्थिः कार्यो दुर्विनीतपुत्रकदासीदाससेवकादीनां गोमहिषीतुरगकरिकरभादीनां वा / वधोऽप्येवमेव द्विपदादि विषयो विकल्प्यः। प्राक् तावद् भीतपरिषक्तेनैव भुवितव्यमगारिणा। समुत्पबप्रयोजनस्तु सापेक्षो निर्दयप्रहारान् परिहरन् कशादिभिर्वयोऽपेक्षया कर्णवलनचपेटादिभिश्च साधयेत् / तथा निष्प्रयोजनः छविच्छेदः परिहार्य एव, तदाह-त्वक्छेदः काष्ठादीनामिति / काष्ठशब्देन वृक्षपरिग्रहः, वृक्ष आदिरेषामिति, आदिग्रहणाद् भूमितेजाकरकद्विपदचतुप्पदपरिग्रहः / सप्रयोजनस्तु सापेक्षः कर्णपाटनाङ्कनादिरगुलिसंदंशकश्रवणनासिकाच्छेदो वा मनाग भयजननाय तस्करादीनामिति / पुरुषेत्यादि। पुरुषादयः कृतद्वन्द्वाः / आदिग्रहणात् खरकरभमेषच्छागपरिग्रहः। यथासम्भवं वा, एषामतिभारारोपणमतिचारः, उत्सर्गतो 'चारक्रमेण ' इति ड-पाठः। ४'क्षयोपेक्षया' इति हु-पाठः। 2 'व्युत्सर्ग ' इति ग-पाठः। 3 ' सापेक्षात् ' इति -पाठः