________________ तत्त्वार्थाधिगमसूत्रम् [अव्यायः 7 ___अनभिग्रहीता तु भोगसुखपराणामास्तां निःश्रेयससुखं, इदमेव पर्याप्तं यत् प्रकृष्टैश्वर्याभिजनादिध नीरोगतादि जन्मेति / सर्वदेवतासु सर्वपापण्डिषु च तुल्यतामौदासीन्य मावयनीति / एतत्सत्र वनाह-प्रशंसासंस्तवौ सम्यग्दृष्टेरति चार इति / एषामुक्तलक्षणानां क्रियाऽक्रियावादिनामज्ञानिकानां च प्रशंसा स्तुतिः अभिष्टवः पुण्यभाज एते सुलब्धमेभिर्जन्म सत्यसन्धाः सन्मार्गदर्शननिपुणा इत्यादिः, संस्तवः-तैः सहै कत्र संवासात् परिचयः परस्परालापादिजनितः / तथा हि एकत्र वासे तत्प्रक्रियाश्रवणात् तत्क्रियादर्शनाच असंहार्यमतेरपिष्टिभेदः श्रूयते, किमुत संहार्यमतेः ? / अत एव भगवद्भिः पार्श्वस्थादियथाच्छन्दिकैरपि सार्ध निषिद्धमेका वपन मेकरात्रमपि सम्यग्दृष्टेरुत्सर्गात् / तस्मादतीचारावेतौ मलीमसताहेतू तत्प्रशंसासंस्तवो सम्यग्दृष्टेभ्रेशहेतू वा / / मा० --(अत्राह-प्रशंसासंस्तवयोः कः प्रतिविशेष इति। अनोच्यते-) टी०-प्रसिद्धार्थवशादुपजातसन्देहः कश्चिदत्राह-प्रशंसासंस्तवयोः कः प्रतिविशेष इति ? / अत्रोच्यते-एवं मन्यते "शंसु स्तुती" ( पा० धा० 728 ) / प्रशंसनं प्रशंसास्तुतिः / "ष्टुञ् स्तुती" (पा० धा०१०४३) / संस्तवः सम्यक्स्तुतिरेव / अतस्तुल्यार्थत्वात् प्रभयति-का प्रतिविशेष इति / अत्रोच्यते __मा०-ज्ञानदर्शनगुणप्रकर्षाद्भावनं भावतः प्रशंसा। संस्तवस्तु सोप, निरुपधं च भूतगुणवचनमिति // 18 // टी-ज्ञानेत्यादि / ज्ञानम्-आगमः // 18 // सूत्रम-व्रतशीलेषु पञ्च पञ्च यथाक्रमम् // 7-19 // भा०---व्रतेषु पञ्चसु शीलेषु च सप्तसु पञ्च पश्चातीचारा भवन्ति / यथाक्रममिति ऊवं वक्ष्यामः // 19 // टीव्रतेष्वित्यादि सामान्येनापि व्रताभिधाने सामर्थ्यादगारिणो यानि व्रतानि तेषु विषयभूतेषु / पञ्चस्वित्यन्यूनानतिरिक्तेषु शीलेषु च सप्तस्विति / चशब्दः समुच्चायकः / सप्तव शीलानि तेषु च / पञ्च पञ्चेति नियमवचनम् / प्रतिव्रतं प्रतिशीलं पश्चानिचारा भवन्ति, न चत्वारः षड् वा / भतिचारपरिगणनं च सुखपरिहारार्थम् / यथाक्रममिति व्यतिकरनिवृत्त्यर्थम् / अन्यथा बन्धवधादयः स्थूलमृषावादनिवृत्तेरप्यतीचाराः स्युः / एवमितरेऽपि व्यतिकरण प्राप्नुयुः। ऊर्ध्वं वक्ष्याम इति नियमप्रदर्शनं यदुपरिष्टादतीचारजातमभिधास्यामस्तदुक्तेषु व्रतादिषु यथाक्रममिति // 19 // भा०-~-तद्यथा 1 धनुकान्तर्गतोऽयं पाटो घ-पुस्तक एव। 2 'भूताभूतगुण' इति घ-पाठः। . 3 अयं सूत्र-भाष्य-पाठो नोपलभ्यते कतमस्यामपि प्रत्याम् , इदमवतरणं तु घ-पुस्तकाधारेण कृतं मगा।