________________ 101 सूत्रं 18 ] . स्वोपज्ञभाष्य-टीकालङ्कृतम् अजीवादिष्वप्यष्टाम्वेवमेव प्रतिपदं विंशतिर्विकल्पानाम् अतो विंशतिर्नवगुणाः शतमशीत्युत्तरं क्रियावादिनामिति // __ अक्रियावादिना स्वरूपकथनं नामत एव क्रियते / तद्युक्तानामित्यनुवर्तते / आत्मनास्तिस्वादिप्रत्ययापत्तिलक्षणा भवन्त्यक्रियावादिनः / नहि कस्यचिदवस्थितस्य पदार्थस्य क्रिया समस्ति, "भूतिर्येषां क्रिया सैव, कारकं सैव चोच्यते"। एतेषां अक्रियावादिनां चतुरशीतिर्भेदाः, तेषां पुण्यापुग्यविवर्जितः पदार्थसप्तकन्यासः तथैव, 84 भेदाः जीवस्याधः स्वपरविकल्पभेदद्वयोपन्यासः। असवादात्मनो नित्यानित्य भेदौ तुं न स्तः। कालादीनां षष्ठी यदृच्छा न्यस्यते, पश्चाद् विकल्पाभिलापः-नास्ति जीवः स्वतः कालत इत्येको विकल्पः।। एवमीश्वरादिभिरपि, यदृच्छावसानाः सर्वे च षड् विकल्पाः। तथा नास्ति जीवः परतः कालत इति षडेव विकल्पाः, एकत्र द्वादश / एवमजीवादिष्वपि षट्सु प्रतिपदं द्वादशैव विकल्पाः / एकत्र द्वादश सप्तगुणाचतुरशीतिविकल्पा नास्तिकानामिति // कुत्सितं ज्ञानमज्ञानं तदेषामस्तीति अज्ञानिकाः // नन्वेवं लघुत्वात् प्रक्रमस्य प्रार बहुव्रीहिणा भवितव्यम् / ततश्चाज्ञाना इति स्यात् / नैष दोषः / ज्ञानाज्जात्यन्तरमेवाज्ञानं, मिथ्यादर्शनसहचरितत्वात् / ततश्च जातिशब्दत्वाद गौरखरवदरण्यमित्यादिवदज्ञानिकत्वमिति / अथवा अज्ञानेन चरन्ति तत्प्रयोजना वा. आज्ञानिका इति पाठः / महानिकानां असश्चिन्त्यकृतबन्धवैफल्यादिलक्षणाः सप्तपष्टिभेदाः, तत्र जीवादीन् नव 67 भेदाः . पदार्थान् पूर्ववद् व्यवस्थाप्य पर्यन्ते चोत्पत्तिमुपन्यस्याः सप्त सदादय उपन्यसनीयाः, सत्त्वमसत्त्वं सदसत्वमवाच्यत्वं सदवाच्यत्वमसदवाच्यत्वं सदसदवाच्यत्वमिति च, एकैकस्य जीवादेः सप्त सप्त विकल्पाः ( त एते नवसप्तकास्त्रिपष्टिः / उत्पत्तेस्तु चत्वार एवाद्या विकल्पाः / तद्यथा-सत्त्वमसत्त्वं सदसत्त्वमवाच्यत्वं चेति, त्रिषष्टिमध्ये क्षिप्ताः सप्तषष्टिर्भवति / को जानाति जीवः सन्नित्येको विकल्पः / एवमसदादयो वाच्याः / उत्पत्तिरपि कि सतः असतः सदसतोऽवाच्यस्येति वा को जानात्येतत् ? न कश्चिदपीत्यभिप्रायः॥ वैनयिकानां चेति / चशब्दः समुच्चये / विनयेन चरन्ति, विनयो वा प्रयोजन समाज मेषामिति वैनयिकाः / ते चामीष्वष्टासु स्थानेष्वनवधृतलिड्गचारा३२ भेदाः शास्त्रविनयप्रतिपत्तिलक्षणा विनयप्रधानाः सपयों विदधति कायेन वाचा मनसा दानेन च / एभिश्चतुर्भिः प्रकारैः सुरनृपतियतिज्ञातिस्थविराधममातृपितृषु / एवं चाष्टकाश्चत्वारो द्वात्रिंशद् विकल्पा भवन्तीति / एवमभिगृहीतमिध्यादृष्टेः सर्वसङ्ख्यया त्रीणि शतानि त्रिषष्टपधिकानि /