________________ तत्त्वार्थाधिगमसूत्रम् [अध्यायः 7 एकस्मिन्नप्यर्थे संदिग्धे प्रत्ययोर्हति हि नष्टः। मिथ्यैव दर्शनं तत् स चादिहेतुर्भवगतीनाम् // 2 // " तस्मान्मुमुक्षुणा व्यपगतशङ्केन सता जिनवचनं सत्यमेव सामान्यतः प्रतिपत्तव्यम् / संशयास्पदमपि सत्यमेव, सर्वज्ञाभिहितत्वात् तदन्यपदार्थवत्, मतिदावल्यादिदोषात् तु कात्स्न्न सकलपदार्थस्वभावावधारणमशक्यं छद्मस्थेन / यथाऽऽह (भगवतीवृत्तौ) " न हि नामानाभोगश्छमस्थस्येह कस्यचिन्नास्ति / यस्माज्ज्ञानावरणं ज्ञानावरणप्रकृति कर्म // 1 // " काङ्क्षास्वरूपमभिधातुकाम आहकाक्षायाः स्वरूपम् , .. भा०-ऐहलौकिकपारलौकिकेषु विषयेष्वाशंसा काडक्षा / सोऽतिचारः सम्यग्दृष्टेः / कुतः 1 / काङ्क्षिता ह्यविचारितगुणदोषः समयमतिकामति // ____टी०-ऐहलौकिकपारलौकिकेंष्वित्यादि / इहलोके भवा ऐहलौकिकाः शब्दादयो विषयाः / सुगतेन हि मिथूणामक्लेशको धर्म उपदिशः स्नानानपानाच्छादनशयनीयादिसुखानुभवद्वारेण / सोऽपि हि घटमानक एव, न दुरापेतः / तथा परिव्राजकभौतब्राह्मणादीनामहिकान् विषयानुपभुञ्जाना एव परलोकेऽपि सुखेन युज्यन्ते, साधीयान् धर्मोपदेशः / तथा परलोके भवाः पारलौकिकाः-स्वर्गमानुषजन्मप्रभवाः शब्दादयो विषयाः प्रकर्षापकर्षवृत्तित्वाद् अन्यान्यदर्शने सति ग्राहोऽमिलापस्तद्विषयः, आशंसा प्रीतिरभिलाषः काक्षेत्यनर्थान्तरम् दर्शनेषु वा / तथाचागमे ( आवश्यकसूत्रनाम्नि चतुर्थे विभागे )-"कंखा अण्णण्णदंसणग्गाहो"। प्रस्तुतोऽतिचारस्तच्छब्देन तस्य परामर्शः / सोऽतिचारो मलीमसताध्यामलता / कस्य ? सम्यग्दृष्टेरित्याह / न निर्मूलमेव सम्यक्त्वं भवति, मलिनमात्रता तस्य जायते इति / कस्मात् पुनः काङ्क्षा अतिचार इति प्रश्नेनोपक्रमते कुत इति / एवं मन्यते प्रष्टा-जिनवचनं श्रद्धत्त एव, न न श्रद्धत्ते, अश्रद्दधतश्च मिथ्यादर्शनम् / आचार्यस्त्वाह-काक्षिता हीत्यादि / यस्मादन्यशासनतत्त्वाभिलाषी काइक्षिता, न विचारिता गुणदोषा येनासावविचारितगुणदोषः सांसारिकसुखमल्पकमभिलपत्यैहलौकिकं पारलौकिकं वा विनश्वरमवसानकटुकं दुःखानुविद्धमुद्धतकषायकलुषितत्वात् संसारानुबन्धि, सर्व चैवविधं भगवद्भिः प्रतिषिद्धं, प्रतिषिद्धानुष्ठानं च भावतो दूषयति सम्यक्त्वं, सिद्धान्तव्यवस्थोल्लङ्घनात् / तदाह-सम 1. लौकिकेषु विषये.' इति घ-पाठः, ख-पाठस्तु लौकिकविषये.' इति / 2 छाया काक्षा भन्यान्यदर्शमाहः / 3 'श्वयत' इति क-स-पाठः।