________________ 97 सूत्र 18] स्वोपज्ञभाष्य टीकालङ्कृतम् टी-शङ्केत्यादिकया। अतिचारो व्यतिक्रम उल्लङ्घन(स्खलन?)मित्येकोऽर्थः। अधिगतेत्यादि / अधिगतं-सुपरिज्ञातं जीवाजीवादितत्त्वं यस्य तस्याप्येवंविधस्य / भगवत इति धर्मलक्ष्मीयशोभाजः श्रीवर्धमानस्य शासन-प्रवचनं अभिप्रपन्नस्य-अभिमुखं भावतः, प्रतिपन्नस्येतियावत् / असंहार्यमतेरिति / संहार्या-क्षेप्या परकीयागमप्रक्रियाभिरसमञ्जसाभिर्बुद्धिर्यस्यासौ संहार्यमतिः, न संहार्यमतिरसंहार्यमतिर्भगवदर्हत्प्रणीततत्त्वश्रद्धा तया (1) तस्य सम्यग्दृष्टरहेत्प्रोक्तेषु जीवादिष्वर्थेषु यथाऽऽत्मा लोकाकाशतुल्यप्रदेश: गतिस्थितिहेतू जीवपुद्गलानां धर्माधर्मावपेक्षाकारणमित्येवमादिरनेकः पदार्थोऽत्यन्तसूक्ष्मः, तेषु / अत्यन्तग्रहणाल्लिङ्ग(लिङ्गागमी)गम्येषु / यतः परमाणवः सूक्ष्माश्चातीन्द्रियाश्च, तथापि लिङ्गेन-कार्येण आगमेन वाऽवगम्यन्ते, नैवं संख्येयप्रदेशादय इति, अत्यन्तसूक्ष्माः समुल्लकितचक्षुरादिविषयभावाः, केवलागमग्राह्येष्विति, नाप्रमाणकास्तेऽत्यन्ताभाववदिति दर्शयति, केवलमेकं मत्यादिसहायभावविनिर्मुक्तमात्यन्तिकज्ञानावरणक्षयप्रभेद(भव)मात्मस्वरूपं सकलज्ञेयग्राहि यत् ज्ञानं तेन गृह्यन्ते, आगमो-द्वादशाङ्गं प्रवचनमहत्प्रोक्तार्थ गणधरप्रत्येक बुद्धस्थविरविरचितसूत्रप्रवन्धम् / यदाह ("अर्हत्प्रोक्तं गणधरहब्धं प्रत्येकबुद्धदृब्धं वा / स्थविरग्रथितं च तथा प्रमाणभूतं त्रिधा सूत्रम // ") " श्रुतकेवली च तस्मादधिगतदशपूर्वक तौ स्थविरौ / आप्ताज्ञाकारित्वात् तु सूत्रमितरत् स्थविरदृब्धम् // गीतार्थः संविनश्चरणस्थो नोपदेशने शक्यः (भाज्यः 1 ) / भाज्यः स एव सद्भावदेशने मन्दवृत्तश्चेत् // " अत आगमपरिच्छेद्येषु प्रज्ञापनीयेष्वर्थेषु यः संशयो भवति एवं स्यादसंख्येयप्रदेश आत्मा, अथ निष्प्रदेशो निरवयवत्वान्नैवं स्यादिति वा, सेयमेवंविधा शङ्का / तथा चागमः" 'संसयकरणं सङ्का" (आव०) मिथ्यादर्शनं च त्रिविधम्, अभिगृहीतानभिगृहीतसंशयभेदात् , तत्र संशयो मिथ्यात्वमेव, यथाऽऽह (सङ्ग्रहण्याम् ) "पंयमक्खरं च एकपि जो न रोरति सुत्तनिदिई / सेसं रोयंतोवि हु मिच्छद्दिडी मुणेयव्यो // 1 // " तथा-" सूत्रोक्तस्यैकस्याप्यरोचनादक्षरस्य भवति नरः। .. मिथ्यादृष्टिः मूत्रं हि नः प्रमाणं जिनाज्ञा च // 1 // 'यतः परमाणवः सूक्ष्माश्चातीन्द्रियाश्च' इति क-ख-ग प्रतीनामधिकः पाठः, परन्तु स पाठः प्रामादिक इति प्रतिभाति / 2 'भावादिति सूक्ष्ममात्यन्तिक' इति ड-पाठः। 3 'पूर्वधरच तो' इति ख-पाठः। ४'मन्ददृश्वत्वात् / इति अ-पाठः / ५'परिशेयेषु' इति तु-पाठः। 6 संशयकरणं शक्षा / छाया-पदमक्षर चेकमपि यो न रोचते सूत्रनिर्दिष्टम्। शेष रोचमानोऽपि खलु मिथ्यादृष्टितिभ्यः //