________________ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 7 सम्प्रति व्याख्यातस्वरूपाणि शीलानि निगमयति भा---एतानि दिग्वतादीनि शीलानि भवन्ति / " निःशल्यो व्रती" (अ० 7, सू० 13) इति वचनादुक्तं भवति व्रती नियतं सम्यग्दृष्टिरिति // तत्र टी.-एतानीत्यादिनोत्तरसूत्रस्य च सम्बन्धमाचष्टे / दिक्षु वतं दिव्रतम् / तदादौ रोषां तान्येतानि दिग्नतादीनि सप्तापि सह संल्लेखनया शीलानि भवन्ति / शील्यन्तेऽभ्यस्यन्ते वाऽत्मनि पुनः पुनरिति शीलानि / एवमयमगार्यणुव्रतसम्पन्नो व्रती उच्यते / स च प्रती निःशल्य इत्यमुष्माद् वचनादिदमपि सामर्थ्यतः प्रतिपादितं भवति-व्रती नियतं सम्बग्दृष्टिरिति / व्रतिलक्षणादेव विशिष्टार्थावधारणम् / यो व्रती सोऽवगंतया सम्यग्दर्शनी भवतीति / यतः शङ्कादिदोषदूषितमनसो मिथ्यादर्शनशल्यत्रुध्यमानसकलमूलोत्तरगुणाधारतस्वश्रद्धानस्य नियमत एव नास्ति व्रतित्वम् , अतो व्रतीति नियतं सम्यग्दृष्टिरिति / तस्य च सम्यग्दृष्टेरतीचारः सम्यग्दर्शनव्यतिक्रमो मलीमसता स्खलनं विभ्रंशो वाऽभिधीयते, सम्यग्दर्शनमूलत्वाच्च व्रतित्वस्य / प्राक् तावत् सम्यग्दर्शनातिचाराभिधानम् / शुद्धे हि तस्मिन् व्रतविशुद्धिरिति // सम्यग्दर्शनस्य सूत्रम्-शङ्काकाङ्क्षाविचिकित्साऽन्यदृष्टिप्रशंसापश्चातीचाराः ____ संस्तवाः सम्यग्दृष्टेरतीचाराः॥ 7-18 // टी०-तत्र-तेषु सम्यक्त्वाणुव्रतशिक्षात्रतेषु सम्यग्दर्शनातिचारः पञ्चविधः। ते तु शकेस्यादि शङ्काकाक्षाविचिकित्साऽन्यदृष्टिप्रशंसासंस्तवाः सम्यग्दृष्टेरतीचाराः, कतद्वन्द्वाः शङ्कादयो भवनविभक्त्या निर्दिष्टाः, सम्यग्दृष्टेरिति सम्यग्दर्शनभाजोऽतीचारा भवन्ति, मोहनीयकर्मणो वैचित्र्यादात्मनः परिणतिविशेषाः। तानि द्वन्द्वपदानि पश्चापि वृत्त्या दर्शयति भा०-शङ्का काङ्क्षा विचिकित्सा अन्यदृष्टिप्रशंसा संस्तवः इत्येते पञ्च सम्यग्दृष्टेरतिचारा भवन्ति / अतिचारो व्यतिक्रमः स्खलितमित्यनान्तरम् / अधिगतंजीवाजीवादितत्त्वस्यापि भगवतः शासनं भावतोऽभिप्रपन्नस्यासंहार्यआशया स्वरूप मतेः सम्यग्दृष्टेरैहतोक्तेषु अत्यन्तसक्ष्मेष्वतीन्द्रियेषु केवलाग. मंगम्येष्वर्थेषु यः सन्देहो भवत्येवं स्यादिति सा शङ्का / सदनं' इति उ-पाठः। 2 'संस्तवाः' इति ख-पाठः। ३.रतीचाराः '६ति ख-घ-पाठः। 4 'स्खलनमित्य.' इति घ-पाठः। ५'जीवाधिगतत्वस्यापि' इति क-ख-ग-पाठश्चिन्तनीयः। ६.'अर्हत्प्रोक्तेषु' इति च-पाठः। 'मप्राधेभ्यर्थेषु' इति घ-पाठः। 8 ' भवत्येवं स्यादेवं न स्यादिति' इति घ-पाठः।