________________ सूत्र 17 ] . स्वोपज्ञभाष्य-टीकालङ्कृतम् 95 द्वादशवर्षाण्युत्कर्षतः संलेखनाकालः, तदनु स्वशक्त्यपेक्षो मासार्धमासपरिणामया द्वादशवर्षव्यवस्थयैवागभोक्तया संलेखनाकालोऽवसेयः। संलेखनावश्यं समाधिमरणपर्यन्ते विधेयाऽनगारागारिभ्याम् / जोषितेति कर्तरि ताच्छीलिकस्तृन् / मारणान्तिकी संलेखना जोषिता-सेविता कर्तेति / एनमेवार्थ भाष्येण स्पष्टयति___ भा०—कालसंहननदौर्बल्योपसर्गदोषादू धर्मावश्यकपरिहाणि मेरणं वाsभितो ज्ञात्वाऽवमौदर्यचतुर्थषष्ठाष्टमभक्तादिभिरात्मानं संलिख्य संयम प्रतिपद्योत्तमव्रतसम्पन्नश्चतुर्विधाहारं प्रत्याख्याय यावजीवं भावनाऽनुप्रेक्षापर: स्मृतिसमाधिबहुलः मरणान्तिकी संलेखनां जोषिता उत्तमार्थस्याराधको भवतीति // 17 // टी०-कालसंहननेत्यादिना। कालदोषो दुष्षमायां दुःशकं बहूनि वर्षाणि साधुगृहिधर्मानुष्ठानं मन्दधृतित्वात् पुरुषैः यथोक्तं दुर्भिक्षवाच्यं दुर्भिक्षं वा / कालो दुर्लभानपानः / संहननं वर्षभनाराचादि षोढा / संहननस्य दौर्बल्यं-दुर्बलता वज्रर्षभनाराचादारभ्य हीयमानं यावत् सेवार्तमिति सर्वदुर्बलम् / उपसर्गास्तु दिव्यमानुषतिर्यकृतात्मसमुत्थाः / दोषशब्दः प्रत्येकमभिसम्बध्यते / कालदोषात् संहननदौर्बल्यादुपसर्गदोपाद् वा / धर्मो दशलक्षणकस्तद्विषयाण्यवश्यं कर्तव्यानि आवश्यकानि साधोः प्रत्युपेक्षणादीनि / अनगारिणोऽपि चैत्यवन्दनवैयावृत्यपौषधप्रतिपच्यादीनि तेषां परिहाणिः-अवसादः कालादिदोषात् तामवगम्य कालादिदोपमन्तरेण वा मरणं अभितः प्रत्यासन्नमवबुद्धयेदं कर्तव्यमित्याह-अवमौदर्येत्यादि / अवमं-न्यूनमुदरं तद्भावः अवमौदर्य अविकृतवदनकुक्कुट्यण्डकमानेन द्वात्रिंशत्कवलाहारः पुरुषः स्त्री वा (?) / ततः किश्चिन्यूनतादिभेदेनावमौदयेमनेकविधमागमेऽभिहितम् / चतुर्थादिभक्तभावना पूर्वोक्तैव / आदिग्रहणादर्धमासक्षपणादिपरिग्रहः / एभिस्तपोविशेषैरात्मानं संलिख्य-तनूकृत्य विरूक्ष्य रुधिरमेदोमांसाद्यपचयं कृत्वा कषायांश्च क्रोधादीनपास्य प्रोग्य च गृहिततित्वमभ्युपगम्य संयम सर्वसावद्ययोगविरतिलक्षणमुत्तमैः-महाव्रतैः सम्पन्नश्चतुर्विधमशनादिकमाहारं प्रत्याख्याय त्रिविधं यथासमाधि यावज्जीवमिति विशियावधिकं, भावनाऽनुप्रेक्षापरः। भावनाः पूर्वोक्ताः / अनुप्रेक्षास्तु वक्ष्यमाणा नवमे (सू०७)। तत्पर इति-तत्र निहितचेतास्तदध्यवसानः स्मृतिबहुलः सर्व स्मरति यत् प्रतिज्ञातं महाव्रतादि, मुषितस्मृतेने निर्जराऽस्ति प्रमादवतः / समाधिरिति चेतसः स्वस्थता तद्बहुलः / नातरौद्राध्यायीति / एवं बहुकुर्वनुत्तमार्थस्येति प्रकृष्टपुरुषार्थस्य-मोक्षस्याराधको भवतीति // 17 // २'भावेनानुप्रेक्षा.' इति क-ख-पाठः। 3 'प्रत्यवेक्षणा.. 1 'मरणं 'इति घ-पुस्तके नास्ति / इति ग-पाठः।