________________ तत्त्वार्थाधिगमसूत्रम् [अध्यायः 7 __टी-अतिथिसंविभागो नामेत्यादि / अतिथिर्भोजनार्थ भोजनकालोपस्थायी,स्वार्थ विवर्तिताहारस्य गृहिवतिनः साधुरेवातिथिः, तस्य संविभागोऽतिथिसंविभागः / संविमागग्रहणात् पश्चात् कर्मादिदोषपरिहारः / अत्र च पोषधोपवासपारणकाले नियमः-अदत्वा साधुभ्यो न स्वयं पारणीयमिति / अन्यदा तु दत्त्वा वा पारयति पारयित्वा वा ददातीत्यनियमः। तन देयं देशकालापेक्षं सर्वमेवोद्गमादिविशुद्धं मोक्षफलमभिलपता संयतासंयतेन कदाचित्, कचिदाधाकर्माद्यपि देशकालापेक्षं स्वर्गादिफलमेव भवतीति विजानता देयमेव, उत्सर्गापवादप्रवचनस्वभावत्वात् भगवदर्हत्प्रणीतप्रवचनस्येति / नामशब्दः पूर्ववत् / न्यायागतानामिति / न्यायो द्विजक्षत्रियविदेशूद्राणां च स्ववृत्त्यनुष्ठानम् / स्ववृत्तिश्च प्रसिदैव प्रायो लोकाहेर्या, तेन तादृशा न्यायेनागतानाम् / कल्पनीयानामिति / उद्गमादिदोपवर्जितानामशनीयपानीयखाद्यस्वाद्यवस्त्रपात्रप्रतिश्रयसंस्तारभेषजादीनाम् / द्रव्याणामिति पुद्गल विशेषाणाम् / देशो नानात्रीहिकोद्रवकङ्गुगोधूमादिनिष्पत्तिभाग। कालः सुभिक्षदुर्भिक्षादिः / श्रद्धा विशुद्धश्चित्तपरिणामः पात्राद्यपेक्षः। सत्कारोऽभ्युत्थानासनदानवन्दनानुव्रजनादिः। क्रमः परिपाटी। देशकालापेक्षो यः पाको निवृत्तः स्वगेहे तस्य पेयादिक्रमेण दानम् / यो वा यत्र देशे काले वा यः क्रमः प्रसिद्धस्तैर्देशादिभिः / उपेतशब्दः प्रत्येकमभिसम्बध्यते / परयेति प्रकृष्टया आत्मनोऽनुयहबुद्धया ममायमनुग्रहो महाव्रतयुक्तैः साधुभिः क्रियते यदशनीयाद्याददत इति / अतः संयता मूलोत्तरसम्पन्नास्तेभ्यः संयतात्मभ्यो दानमिति // 16 // किमान्यदित्यनेनाभिसम्बध्नाति / सम्यक्त्वसम्पन्नोऽणुव्रतधरः शीलसम्पदा युक्तः किश्चान्यदनुपालयेदित्याह सूत्रम्-मारणान्तिकी संलेखनां जोषिता // 7-17 // टी०-यद्यपि प्रतिक्षणमावीचिकमरणमस्ति तथापि न तद्ग्रहणं, किं तर्हि ? सर्वायुषः क्षयो मरणं, मरणमेवान्तो मरणान्तः-मरणकालः। प्रत्यासन्नं मरणमितियावत् / जन्मनः पर्यवसानं तत्र भवा मारणान्तिकी " बद्दच " (पा० अ० 2, पा० 4, मू० 66 ) इति घम्। संलेखनाऽभिसम्बध्यते / संलेख्यतेऽनया शरीरकषायादीति संलेखना-तपोविशेषः / यथोक्तमाः " चत्तारि विचित्ताई विगंतीनिजहिताई चत्तारि। __ऐगंतरमायाम अविगिविगिढकोडिक // 1 // " 1 'केचित् ' इति उ-पाठः। 2 वैश्य ' इति ङ-पाठः। 3 ' सानात् ' इति -पाठः / 4 छाया चत्वारि ( वर्षाणि) विचित्राणि (तपांसि ) विकृति नियंढानि चत्वारि / एकान्तरमाचाम्लं (द्वे ) अविकृष्टं (एक) विकृष्टं (एक) कोट्या (एकम् ) // 1 // ५-विज्जीवयाइ ' इति -पाठः। 6 'एगुत्तरयोग' इति ङ-पाठः /