________________ सूत्र 16 ] स्वोपज्ञभाष्य-टीकालङ्कृतम् खण्डम् / आदिग्रहणाद् द्विदलवस्त्रकम्बलीपरिग्रहः। अन्यतममिति उक्तानां मध्ये यथालाभमास्तीर्य विरचय्य प्रतनुनिद्रेणानुष्ठेयः / अथवा स्वशक्त्यपेक्षया स्थानादिविधिनाऽनुष्ठेयः,तदाहस्थानमूर्खलक्षणं कायोत्सर्गाख्यम्, वीराणां संहननयुक्तानामासनं जान्वधोभागतुल्यमश्चिकादिनिविष्टस्यापनीताधोमश्चिकस्य तथाऽवस्थानं वीरासनमुच्यते / निषद्या समस्फिनिवेशनं पर्यतबन्धादि / वाशब्दो विकल्पार्थः / स्थानादि वा शयनं वा / अन्यतममिति यदेवाभ्यस्तम्, आस्थायेति परिगृह्य / धर्मस्तु श्रुतचरणभेदाद् द्विधा / तत्र श्रुतधर्मो वाचनाप्रच्छनाऽनुप्रेक्षास्वाध्यायधर्मोपदेशलक्षणः, चरणधर्मो महोत्रताणुव्रतोत्तरगुणभेदस्तद्विषयं जागरणं जागरिका। धर्मे जागरिका। न चातरौद्रविकथाद्याश्रिता जागरिकेति / "इच्छा" (पा० अ० 3, पा०३, सू० 301) इत्यत्रसूत्रे जागर्तेरिकारो वेत्युक्तं जागर्या जागरेतिरूपद्वयसिद्धयर्थम् / तत्र जागरैव जागरिका / स्वार्थे कविधानम् / एवमयं पौषधोपवासः सम्यग् गृहिणाऽनुष्ठेय इति // भा०--उपभोगपरिभोगव्रतं नाम अशनपानखाद्यस्वाद्यगन्धमा. उपभोगपरिभोग ल्यादीनां प्रावरणालङ्कारशयनासनगृहयानवाहनादीनां बहुसाव्रतस्य लक्षणम् वद्यानांच वर्जनम(ल्पसावद्यानाम पिपरिमाणका(क)रणमिति॥ टी०-उपभोगपरिभोगशब्दार्थों व्याख्यातौ / तच्च द्विविधं व्रतं भोजनकर्मविषयस्वात् / तत्राशनान्मांसानन्तकायादेर्निवर्तते, पानतो मद्यमधुसुरामांसरसकादेः, खाद्या बहुबीजसत्वौदुम्बरफलादेः, स्वाद्यान्माक्षिकान्मधुप्रभृतेः। एवं यथासम्भवमन्यदपि सचित्तमाहारजातं परिहरति प्रतिदिवसम् / कर्मतः पञ्चदशकर्मादानान्यङ्गारकरणादीनि अल्पसावद्यजीवनोपाया वे तत्प्रवृत्तौ ज्ञानावरणादिकर्मणां हेतुत्वादानात् कर्मादानादीन्युच्यन्ते / तानि चाङ् गारवनशकटभाटकस्फोटनदन्तलाक्षारस विषकेशवाणिज्यायन्त्रपीडानिर्लापञ्चदश कमादानानि छनदवदानसरोहदादिपरिशोषणासतीपोषणकर्माणि / प्रदर्शनं चैतद बहुसावद्यानां कर्मणां, न परिगणनमित्यागमार्थः // ननुच भाष्यकृता न कर्मादानग्रहणमकारि साक्षात् / सत्यम्, आदिग्रहणात् तु व्याख्येयानि, प्रवचने तथोपदिष्टत्वात् / गन्धमाल्यादीनामिति / आदिशब्दात् पटवासधूपप्रकर्षताम्बूलग्रहणम् / समासतो यानि बहुसावद्यानि तानि यावज्जीवं वर्जनीयानि, अल्पसावद्यानां तु कर्मणां कार्यम् / शेषाणि प्रत्याख्येयानीति // . भा०-अतिथिसंविभागोनाम न्यायागतानां कल्पनीयाना. भागस्य मन्नपानादीनां [च द्रव्याणां देशकालश्रद्धासत्कारक्रमोपेतं पर याऽऽत्मानुग्रहबुद्धया संयतेभ्यो दानमिति॥१६॥किश्चान्यदिति व्याख्या 1' महाव्रतोत्तर' इति उ-पाठः / 2 'आच्छादनप्रावरणा' इति घ-पाठः। ३धनुश्चिद्वितोऽयं घ-पाठः / 4 'भावतः प्रवृत्तो' इति -पाठः /