________________ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 7 इति न करोमि न कारयामि तस्य विकल्पस्य प्रत्याख्येयो यः सावद्ययोगः स सर्व इत्यनेन विशेष्यते, न पुनः सामान्येन सावद्ययोगविक्षेपणमिति, असम्भवात् तस्यागारिण इति // भा०-पौषधोपवासो नाम पौषधे उपवासः / पौषधः पर्वेत्य. पौषधलक्षणम् नर्थान्तरम् / सोऽष्टमी चतुर्दशी पञ्चदशीं अन्यतमां वा तिथिमभिगृह्य चतुर्थाद्युपवासिना व्यपगतस्नानानुलेपनगन्धमाल्यालकारेण न्यस्तसर्वसावद्ययोगेन कुशसंस्तारफलकादीनामन्यतम संस्तारकमास्तीर्य स्थानं वीरासननिषद्यानां वाऽन्यतममास्थाय धर्मजागरिकापरेणानुष्ठेयो भवति // टी-पौषधोपवासो नामेत्यादिना पौषधस्वरूपं निरूपयति / रूट्या पौषधशब्दः पर्वसु वर्तते / पर्वाणि चाष्टम्यादितिथयः, पूरणात् पर्व, धर्मोपचयहेतुत्वात् / तत्र पौषधे पर्वणि उपवासः पौषधोपवासः। त्रिविधस्य चतुर्विधस्य वाऽऽहारस्य छेदः “साधनं कृते"ति समासो योगविभागेन वा सप्तमीति समासः। नामशब्देन तु वाक्यालङ्कृतिः। तस्य वा निगमविशेषस्येदं नाम पौषधोपवास इति सोऽयमाख्याते पौषधे उपवास इत्यादिना भाष्येण / अनर्थान्तरमित्येकार्थता / सोऽष्टमीमित्यादि / स पौषधोपवासः-उभयपक्षयोरष्टम्यादितिथिमभिगृह्य-निश्चित्य बुद्धया अन्यतमा चेति प्रतिपदादितिथिम् , अनेन चान्यासु तिथिषु अनि. यमं दर्शयति, नावश्यंतयाऽन्यासु कर्तव्यः। अष्टम्यादिषु तु नियमेन कार्यः / चतुर्थाद्युपवासिनेति कर्टलक्षणा तृतीया / पृथग्जनस्यानियतानि भक्तानि मुमुक्षूणां सकृद् भोजनं, मध्यमजनस्य मक्तद्वयं, तत्र मध्यमा प्रतिपत्तिमाश्रित्य चतुथोदितपोगणना / अतीतेऽहनि भुक्त्वा प्रत्याख्यानमित्येको भोजनकालः। द्वितीयेऽहनि भक्तद्वयच्छेदः। तृतीयेऽहनि चतुर्थभक्तकाले भुङ्क्त इति चतुर्थभक्तमुच्यते / एक उपवासः, कदाचिदुत्तरपदलोपाचतुर्थभक्तस्यार्थः चतुर्थभक्तमेव चतुर्थ तदाधुपवसति यस्तच्छीलश्च स चतुर्थाद्युपवासी। ____ आदिग्रहणात् पूर्वगणितयव षष्ठाष्टमादिसमस्ततपोविकल्पग्रहणम् / स्नानमुदकेन, अनुलेपनं चन्दनकुङ्कुमकस्तूरिकादिना, गन्धाः पवित्रमादिभेदेनानेकविधाः, मालाई माल्यं-पुष्पप्रकरः, अलङ्कारो वस्त्रकेशकटकादिः / व्यपगताः स्नानादयो यस्येति। न्यस्तो-निक्षिप्तः सर्वसावद्ययोगो येन / सर्वशब्दः पूर्ववत् / कुशास्तृणजातिरशुपिरा कुन्थ्वाधादीनामनाश्रयास्तत्कृतःसंस्तरः कुशसंस्तरः, संस्तीर्यतेऽसाविति संस्तरः / “अध्यायन्याय०" (पा० अ० 3, पा० 3, सू० 122) इत्यत्र सूत्रे चशब्दोऽनुक्तसमुच्चयार्थो व्याख्यातः / ततश्च "पुंसि संज्ञायां०" (पा० अ० 3, पा० 3, सू०११८) इति घप्रसङ्गे पञ् , " कृत्यल्युटो बहुलं" ( पा० अ० 3, पा० 3, मू० 113) इति वा, फल कमप्यशुपिरं चम्पकाशोकादिपव १.पौषधोपवासः' इत्यधिको घ-पाठः /