________________ सूत्रं 16 ] . स्वोपज्ञभाष्य-टीकालङ्कृतम् टी-अनर्थदण्डो नामेत्यादि / अर्थः-प्रयोजनं गृहस्थस्य क्षेत्र-वास्तु-धन-शरीरपरिजनादिविषयस्तदर्थ आरम्भो-भूतोपभर्दोऽर्थदण्डः। दण्डो निग्रहो यातना विनाशनमिति पर्यायाः। अर्थेन-प्रयोजनेन दण्डोऽर्थदण्डः। स चैष भूतविषय उपमर्दलक्षणो दण्डः क्षेत्रादिप्रयोअनमपेक्षमाणोऽर्थदण्ड उच्यते / तद्विपरीतोऽनर्थदण्डः प्रयोजननिरपेक्षः, अनर्थोऽप्रयोजनमनुपयोगो निष्कारणता विनैव कारणेन भूतानि दण्डयति, यथा शतधारकुठारेण प्रकृष्टस्तरुस्कन्धशाखादिषु प्रहरति / ककलासपिपीलिकादीन् व्यापादयति कृतसङ्कल्पः / न च तद्व्यापादने किश्चिदतिशयोपकारि प्रयोजनमस्ति येन विना गार्हस्थ्यं प्रतिपालयितुं न शक्यते, सोऽयमनर्थदण्डः पापादानहेतुरिति प्रेक्षापूर्वकारिणा प्रोज्झ्यः / नामशब्दः पूर्ववत् / अनर्थदण्डस्वरूपनिरूपणायाह-उपभोगेत्यादि / उपभुज्यत इत्युपभोगः / उपशब्दः सकृदर्थे / सकृद् भोग उपभोगः पुष्पाहारादेः / अथवाऽन्तर्भोग उपभोग आहारादिः। अत्रान्तर्वचन उपशब्दः / परिभुज्यत इति परिभोगः / परिशब्दोऽभ्यावृत्तौ वर्तते / पुनः पुनर्भोगो वा वस्त्रगन्धमाल्यालङ्कारादेः। समासतः सर्वमुपयुज्यमानं शरीरादीनामगारिणो वतिन उपकारकोऽर्थः, तस्मादुपकारकादर्थाद् व्यतिरिक्तोऽनुपकारकत्वात् अनर्थः तदर्थ इत्यनुपकारको योऽर्थः तदर्थो दण्डो भूतोपमर्दलक्षणोऽनर्थदण्डः धर्मार्थकाममोक्षाणामन्यतमस्याप्यभावात् , अतस्तस्माद् विरतितमगारिणो भवति // ननु चं व्रतग्रहणाद् विरतिंशब्दार्थो गम्यत एव, किमर्थ विरतिग्रहणम् ? / उच्यते-परिजिहीर्षत आदराधानार्थ, दण्डप्रवृत्तो हि निष्कारणमेव पापमुपादत्ते / दूरतश्चायमत आदृतः कथं नाम परिहरेदिति विरतिग्रहणम् // - भा०-सामायिक नामाभिगृह्य कालं सर्वसावद्ययोगसामायिकलक्षणम् निक्षेपः॥ टी०-सामायिकं नामेत्यादि / सामायिकमिति समो-रागद्वेषवियुक्तो यः सर्वभूतान्यात्मवत् पश्यति, आयो-लाभा-प्राप्तिः / समस्यायः समायः प्रतिक्षणमपूर्वापूर्वज्ञानदर्शनचरणपर्यायैर्युज्यते स एवं समायः प्रयोजनमस्य क्रियानुष्टानस्येति सामायिकम् / समाय एव वा सामायिकम् / नामशब्दोऽलङ्कारार्थः। अभिगृह्य कालमिति कालं नियम्य यावत् चैत्यानि पर्युपासे साधुन् वा अन्यद् वा किश्चिदुपलक्षणमास्थाय कालस्य गोदोहादि स्थिरतचित्तवृत्तिर्गृहपौषधशालादिषु निर्व्यापारः सन् सर्वत्र सामायिकमातिष्ठति, अमुना विधानेन करोमि भदन्त ! सामायिकं द्विविधं त्रिविधेनेति / प्रतिपद्य चैवं ततश्चैत्यादि पर्युपास्ते / निक्षिप्तसावद्ययोगः / अवयं-गर्हितं पापम् / सहावयेन सावद्यः योगो-व्यापारः कायिकादिस्तस्य सावधव्यापारस्य निक्षेप:-परित्यागः प्रोज्झनं न करोमि न कारयामि मनोवाक्कायैरिति भावस्तद्विशेषणम् / सर्वशब्दः प्रकृतविकल्पापेक्षया, अतः सर्वसावधपोग 1 'आराधनार्थ' इति -पाठः / 2 'प्रतिक्षापू.' इति -पादः /