________________ तत्त्वार्थाधिगमसूत्रम् [अभ्यायः 7 साषयः-सपापो योगो-व्यापारः कायादिकः तेन चैवपरिमाणात् परतो निवृत्तेन निक्षिप्तोनिरस्तो भवतीति महती गुंणावाप्तिः // सम्प्रति क्रमनिर्दिष्ट देशवतमुच्यते-अत्राह-वक्ष्यति भवान् देशवतम् / पारमार्षवध नक्रमः कैमर्थ्याद् भिमः सूत्रकारेण / / आर्षे तु गुणप्रतानि क्रमेणाकमभेदे हेतुः दिश्य शिक्षावतान्युपदिष्टानि, सूत्रकारेण त्वन्यथा / तत्रायमभिप्राय: पूर्वतो योजनशतपरिमितं गमनमभिगृहीतम् / न चास्ति सम्भवो यत् प्रतिदिवसं तावती दिगवगाह्या, ततस्तदनन्तरमेवोपदिष्टं देशव्रतमिति देशे-मागेऽवस्थानं प्रतिदिनं प्रतिप्रहरं प्रतिक्षणमिति देशव्रतमिति सुखावबोधार्थमन्यथा क्रमः // सम्प्रति माष्येण स्पष्टयत्येनमेवार्थम् भा०-देशवतं नाम अपवरकगृहग्रामसीमादिषु यथाशक्ति देशवतव्याख्या ल्या प्रविचाराय परिमाणाभिग्रहः / तत्परतश्च सर्वसावधयोग निक्षेपः // टी-देशवतं नामेत्यादि / दिक्परिमाणस्यैकदेखो देशः तद्विषयं व्रतं देशवतंदेशनियमः / तब प्रयोजनापेक्षमेकादिदिकं सर्वदिक्कं वा / नामशब्दो वाक्यभूषार्थः। देशनिरूपणार्थमाह-अपवरकेत्यादि / अपवरको विशिष्ट एव गृहैकदेशः तत्रैव नियमःप्रदोषादिकाले आ प्रभातसमयादवों न मया निगेन्तव्यममुतो देशाद् अन्यत्रानाभोगादिभ्य इति / एवं कुख्यमर्यादावच्छिन्नाद् गृहात् तथा इत्तिपरिक्षेपावच्छिन्नाद् ग्रामात् सीमावच्छेदाब। आदिग्रहणं नगरखेटखेवेटविषयखण्डजनपदार्थम् / एतश्च प्रदर्शनमात्रम् / एवं च यत्र देशे यावन्तं कालमिच्छति स्थातुं विहर्तुं च तत्र विवक्षितदेशात परतो निवृत्तिरित्येवमस्यैवार्थस्य प्रतिपादनार्थमिदमाह-यथाशक्तीत्यादि / यथाशक्तीति करणापेक्षया यावति देशे प्रविचारो-गमनादिक्रिया समस्ति गृहिणस्तदर्थः परिमाणाभिग्रहः प्रविचारनियमार्थ इतियावत् / ततश्च तत्परतः प्रविचारजनितः स्थूलसूक्ष्मभूतग्रामोपमर्दपरिहारः कुतो भवतीति दर्शयति-तत्परतश्चेत्यादिना प्राग् व्याख्यातार्थमेतद् भाष्यमिति // भा०-अनर्थदण्डो माम उपभोगपरिभोगावस्यागारिणो अनर्थदण्डव्याल्या प्रतिनोऽर्थः / तद्व्यतिरिक्तोऽनर्थः / तदर्थो दण्डोऽनर्थदण्डः। तरितिव्रतम् // 'गेहात् ' इति ग-पाठः / 2 'कर्पट ' इति -पाठः, 'कट' इति तु क-पाठः। 3 मा तत्र' इति -पाठः। 4 'सूक्ष्मस्थूलभूत' इति -पाठः।