________________ सूत्रं 16 ] स्वोपज्ञभाष्य-टीकालङ्कृतम् न्येव व्रतानि शिक्षापदव्रतानीति / गुणव्रतानि तु न प्रतिदिवसग्राह्याणि, किन्तु सकृद्ग्रहणान्येव / गुण्यन्ते-संख्यायन्त इति गुणा दिगादयः / दिशोऽपरिमाणाः पूर्वादिका दश, तासामिष्टसंख्यावच्छेदेन परतः प्रत्याख्यानमातिष्ठते / एवमुपभोगपरिभोग परिमितसंख्यया परिमाणेऽवस्थापयति / शेषं प्रत्याचष्टे / तथाऽनर्थदण्डमुपभोगमात्रव्यतिरिक्तस्य सकलस्य निवत्तिमभ्युपैति, परिगणयतो गुणवतसंख्या, एवमेतानि शिक्षावतादीनि देशकालावस्थापेक्षाणि शीलमुत्तरगुणाख्यानि अणुव्रतपरिवृद्धयर्थमेव भावनीयानीति // भा०-एभिश्च दिग्वतादिभिरुत्तरव्रतैः सम्पन्नोऽगारी व्रती दिग्वतव्याख्या भवति / तत्र दिगवतं नाम तिर्यगूर्वमधो दशानां दिशा यथाशक्ति गमनपरिमाणाभिग्रहः // टी-एभिश्चेत्यादि भाष्यम् / एभिरिति दिगादिवतैः / आदिग्रहणात शिक्षापदप्रतैः चशब्दादणुव्रतैश्च सम्पन्नोऽगारी व्रती भवतीति / कानि पुनस्तानि दिगादिव्रता नीत्याह-तत्र दिग्व्रतं नामेत्यादि / तत्र-तेत्तरगुणेषु सप्तसु दिग्वतं नाम, दिशोऽनेकप्रकाराः शास्त्रेऽभिहिताः / तत्र सूर्योपलक्षिता पूर्वा शेषाश्च पूर्वदक्षिणादिकाः तदनुक्रमेण, दिशा सम्बन्धि दिक्षु वा व्रतम्-एतावत्सु पूर्वादिदिग्भागेषु मया गमनाद्यनुष्ठेयं, न परत इति / नामशब्दो वाक्यालङ्कारार्थः / एतदेव स्पष्टतरं विवृणोति-तिर्यगूर्वमित्यादिना / तिर्यगिति पूर्वादिका दिशोऽष्टौ निर्दिष्टाः, ऊर्ध्वमिति नवमी दिक, अध इति दशमी। एवमासा पशानां दिशां यथाशक्ति गमनपरिमाणाभिग्रह इति / यथाशक्तीति यथासामर्थ्य कायापेक्षया गमिक्रियादिपरिमाणम्-एतावती दिक् पूर्वेणावगाहनीया, एतावती च पूर्व. दक्षिणेनेत्यादि / अभिग्रहोऽभिमुखं ग्रहणम् / आभिमुख्यं तु निश्चित्य ज्ञानेन गुणदोषाविति गृह्णाति / ततः को गुणोऽवाप्यत इत्याह भा०-तत्परतश्च सर्वभूतेष्वर्थतोऽनर्थतश्च सर्वसावध(योग)निक्षेपः / / ___टी०-तत्परतश्चेत्यादि / गुणमुपदर्शयति प्रष्टुः / चशब्दः क्रमावद्योतनार्थः। तसाद्-गमनपरिमाणात् परतः सर्वभूतेषु-स्थावरजङ्गमाख्येषु पृथिव्यादिद्वीन्द्रियादिषु अर्थ:-प्रयोजनमतिशयोपकारि, सत्यपि तस्मिन् न तत्र गमनाद्यनुतिष्ठति, अतस्तत्रत्यभू. वानामनुपमर्दः / अर्थतोऽनर्थतश्चेति / चशब्दः समुच्चये / अनर्थोऽप्रयोजनं विना प्रयोजनेन भूखननोल्लिखनजलावगाहवनस्पतिच्छेदककलासादिव्यापादनादिरनेकविधः / स एष सर्वः 'पातः' इति ऊ-पाठः / 2 ' मधो वा दधानां ' इति घ-पाठः। 3 'शक्तिपरिणामा ' इति -पाठः / ४'शयोककारि' इति -पाठः /