________________ 8 तत्त्वार्थाधिगमसूत्रम् [अध्यायः 7 टी-अणून्यस्य व्रतानीत्यणुव्रत इत्यादि वृत्त्याऽर्थ दर्शयति अनेन बहुव्रीहिवाक्येन / अनि देशविषयाणि न समस्तविषयाणीति प्रतिपादयति / अस्येत्यन्यपदार्थप्राधान्यख्यापनम् / व्रतशब्दः प्राग् व्याख्यातो निवृत्तिपर्यायः। तदेवमित्यादिना निगमयति सामान्यार्थेन शब्देनानेकभेदसङग्राहिणा / यत्तदोर्नित्यसम्बन्धात् यस्मादनि व्रतान्यस्य तस्मादेवम्-उक्तेन प्रकारेणाणुव्रतधरः प्रतिपन्नाणुव्रत इति / धरणं यथागृहीतव्रताविस्मरणं वक्ष्यमाणातीचारपरिहारेण चानुपालनम् / अत एवंविधः श्रावक इति अगारी व्रती च भवति / पर्यायकथनं चेदं भेदबहुत्वप्रतिपादनार्थम् / एकादशोपासकभेदाः सम्यग्दर्शनप्रभृतयः सकलश्रावकभेदाधारभूता इति / आगमश्च ""दंसणवयसामाइयपोसहपडिमाअयंभसचित्ते / आरंभपेसउद्दिवज्जए समणभूए य // 1 // " -आवश्यकवृत्तौ (पत्रा० 646) दर्शनप्रतिपत्तेरारभ्य स्वशक्त्यपेक्षया व्रतधारणादिष्वध्यवसायक्रियाविशेषेषु प्रवर्तते प्रवर्धमानश्रद्धः श्रमणभूतान्तेषु स्थानेष्वित्येवमणुव्रतोऽगारी व्रती भवतीति // 15 // किश्चान्यदित्यनेन प्रस्तुतस्यार्थस्य सम्बन्धं कथयति, गृहीतमिदमुक्तलक्षणान्यणुत्रतानि धारयति गृहीति / किश्चान्यत् प्रतिपाद्यते( ? आह) सूत्रम्-दिग्देशानर्थदण्डविरतिसामायिकपौ. गुणशिक्षावताता- पधोपवासोपभोगपरिभोगपरिमाणांतिथि संविभागव्रतसम्पन्नश्च // 7-16 // टी.-कृतद्वन्द्वा दिगादयस्तैः सम्पन्नः-समृद्धः संयुक्तः / चशब्दः समुच्चयवचनः / प्रतिपन्नाणुव्रतस्यागारिणस्तेषामेवाणुव्रतानां दाळपादनाय शीलोपदेशः / शीलं च गुणशिक्षाव्रतम् / तत्र गुणव्रतानि त्रीणि-दिग्भोगपरिभोगपरिमाणानर्थदण्डविरतिसंज्ञान्यणुव्रतानां भावनाभूतानि / यथाऽणुव्रतानि तथा गुणव्रतान्यपि सकृद् गृहीतानि यावज्जीवं भावनीयानि / शिक्षापदव्रतानि-सामायिकदेशावकाशिकपौषधोपवासातिथिसंविभागाख्यानि चत्वारि / प्रतिदिवसमनुष्ठेये द्वे सामायिकदेशावकाशिके, पुनः पुनरुच्चार्येते इतियावत् / पौषधोपवासातिथिसंविभागौ तु प्रतिनियतदिवसानुष्ठेयौ, न प्रतिदिवससमाचरणीयौ, पुनः पुनरष्टम्यादितिथिष्वनुष्ठीयेते इति, शिक्षा-अभ्यासस्तस्याः पदानि-स्थानानि अभ्यासविषयस्ता धिकारः 1 छाया दर्शनव्रतसामायिकपौषधप्रतिमाऽब्रह्मसचित्तानि / आरम्भप्रेष्योद्दिष्टवर्जकः श्रमणभूतश्च // २'म्यादिपर्वतिथि' इति ग-पाठः /