________________ 87 सूत्रं 15 ] . स्वोपज्ञभाष्य-टीकालङ्कृतम् किंतर्हि ? कुतश्चिदेव प्राणिघातात / यत एकेन्द्रियाः पृथिव्यादिकायाः पञ्च प्रायो दुष्परिहाराः सद्मवासिनाम् / स्थूलाश्च द्वित्रिचतुःपञ्चेन्द्रियाः / स्थूलत्वं सकललौकिकजीवत्वप्रसिद्धः सूक्ष्मत्वं विगानेन जीवत्वप्रसिद्धेलोंके / तत्रापि सङ्कल्पज प्राणातिपातं प्रत्याख्याति, न आरम्भजम् / आरम्भो हि हलदन्तालखननमुनापञ्चकप्रकारः / तत्रावश्यंतयेव शङ्खणकपिपीलिकाधान्यग्रगृहकारिकामण्डूकादयः संघट्टपरितापापद्रवणक्रियाभिः स्पृश्यन्ते / तस्मान्न समस्ति प्रत्याख्यानं तद्विपयम् / संकल्पजस्य तु संभवति, मनसा संकल्प्य द्वीन्द्रियादिप्राणिनो मांसास्थिचर्मनखवालदन्ताहाथ न हन्मीति, असुमतो निवर्तले सङ्कल्पकृतात् प्राणातिपातात् / न करोमि न कारयामि मनसा वाचा कायेनेत्येवंविषयं प्राणातिपातमित्यादि विकल्पानामन्यतमेन प्रत्याचष्टे / तथा मृपावादान्न सर्वस्माद्, किं तर्हि ? स्थूला भिन्नकन्यका सतीमेवं भूमि (उपरभूमि) अल्पक्षीरामेव गां बहुक्षीरां नाभिदधेऽहमित्यादिकात् / तथा कूटसाक्षित्वदानादेश्च व्यावर्तते, न पुनः स्नेह द्वेपमोहाभिभवाद् विपरीतभाषी भवति / प्रत्याख्यानविधिस्तु पूर्ववत् / तथा अदत्तादानान सर्वस्मात्, किन्तु स्थूलात्, चौयारोपणहेतुत्वेन प्रसिद्धाद् द्विपदचतुष्पदाऽपदविषयानिवतेते, न पुनः अल्पणेन्धनगोमयादिग्रहणात् / प्रत्याख्यानं पूर्ववत् / तथा मैथुनाद् न सवेमात् , किन्तु स्थूलातः स्थूलं च परदारगमनं, तद्विषयमस्य प्रत्याख्यानं, अन्यपक्षे न / प्रत्याख्यानविधिः (च) पूर्ववत् / तथेच्छापरिमाणं प्रतिजानीते, अन्यतः परिग्रहात् विरमति सचित्तादेः स्थूलात् , स्थूलाचापरिमाणतः सर्वेषां क्षेत्रवास्त्वादीनामभिलषितपरिमाणव्यतिरेकं प्रत्याचष्टे / कालनियमेन भक्तवस्त्रभृत्यदारादीनामेतावता मम कार्यमिति / शेषाद प्रत्याख्यानं, तद्विधिश्च पूर्ववत् / एवमेतानि पञ्चाप्यनि-स्वल्पविषयाणि न यथोक्तसमस्तविषयाणि व्रतानि यस्य सोऽणुव्रतोऽगारी व्रती भवतीति // ननुच सोऽणुव्रत इत्येवं सूत्रं कार्यम् / उच्यते-सत्यमेवमनगारिनतपरामर्शः स्यात् तच्छब्देन, “अनन्तरस्य विधि: (वा भवति ) प्रतिषेधो वा" इति (परिभाषे०)वचनात् / अगारिणश्च महाव्रतधारित्वप्रसङ्गः। बच्चासमीचीनम् / अथ द्वयमभिसम्बध्यते अगार्यनगारश्च सोऽणुव्रतो भवतीति सुतरां महाव्रतानि निराधाराणि स्युः / अतोऽगारिग्रहणं कार्य, न कार्य महदित्यनेन शब्देन विशेषितानितु तानि व्रतानि यस्य सोऽनगारो महाव्रतीत्यु(पर्यु)क्तत्वात्, पारिशेष्यादगार्येव संभन्त्स्यते सोऽणुव्रत इति / एवं तीधिकारार्थमगारिग्रहणम् / इतः प्रभृति यद् वक्ष्यते तत् सर्वमगारिणो भवति आ अध्यायपरिसमाप्तेरिति // सम्प्रति भाष्यमुक्तार्थानुसारेणाश्रीयते भा०-अणून्यस्य व्रतानीत्यणुव्रतः। तदेवमणुव्रतधरः श्रावकोऽगारी मेंवति // 15 // किश्चान्यत् तद्विपर्यय ' इति ङ-पाठः। २'क्षीरामेवगामदधे' इति ग-पाठः। 3' यमस्य प्रत्याख्यान्यक्षेण प्रत्या. ' इति क-पाठः। 4 'घ्रती भवति' इति घ-पाठः /