________________ तत्त्वार्थाधिगमसूत्रम् [अध्यायः 7 अनगारभेदास्तु गच्छवासिनो गच्छनिर्गताच, आचार्यादिभेदात् पञ्चधा गच्छवासिनः पुनः पुरुषाः, साध्व्योऽपि प्रवर्तिन्यादिभेदात् पञ्चधैव सदा च गच्छवाअनगारभदा सिन्य एवैताः, गच्छनिर्गताः पुनर्जिनकल्पिकपरिहारविशुद्धिप्रतिमाप्रतिपअकादयः / अत्र गच्छवास्यादिषु नास्ति व्रतभेदः / सामाचारीकृतस्तु महान् विशेषोऽस्तीति सदाश्रयो भेदः सूत्रकारेणाविवक्षित इति / अधुना भाष्येण सूत्रार्थ स्पष्टीकुवेनाह भा०–स एष व्रती द्विविधो भवतीति-अगारी अनगारश्च / श्रावकः श्रमणश्चेत्यर्थः // 14 // टी-स एष व्रतीत्यादि / अनन्तरसूत्रार्थेन सहामुं सूत्रार्थमनुसन्धत्ते / योऽयमनन्तरसूत्रे निःशल्यो व्रतीत्याख्यातः सामान्येन स एष व्रती द्विविधो-द्विप्रकार एव मूलभेदतो भवति / मौलभेदद्वयनिर्दिदिक्षया चाह–अगारी अनगारश्चेति / अगारमस्यास्तीत्यगारी, परिग्रहारम्भवान् गृहस्थ इत्यर्थः / अविद्यमानोऽगारोऽनगारः, परित्यक्तारम्भपरिग्रह इत्यर्थः / एतयोरेव पर्यायकथनेन व्याख्यानं तनोति-श्रावकः श्रमणश्चेत्यर्थः / अभ्यु पेतसम्यक्त्वः प्रतिपन्नाणुव्रतोऽपि प्रतिदिवसं यतिभ्यः सकाशात् साधनाश्रावकश्रमण - मगारिणां च सामाचारी शृणोतीति श्रावकः / श्राम्यतीति श्रमणः / “कृत्य. शब्दार्थः ल्युटो बहुलं" (पा० अ० 3, पा०३, सू० 113) इति वचनात् कर्तरि ल्युट् / श्राम्यति-तपश्चरति प्रव्रज्यादिवसादारभ्य सकलसावद्ययोगविरतो गुरूपदेशात् खाध्यायादिकं यथाशक्ति समाचरत्याप्राणपरिक्षयादिति / एवं च श्रावकोऽगारी श्रमणश्चानगार इति प्रसिद्धाभ्यामत्यन्तं पयोयशब्दाभ्यामगारिसामान्यं अनगारिसामान्यं च व्यवच्छिन्न दर्शितमिति // 14 // अत्राहेत्यादिना सम्बध्नातिभा०—अत्राह-कोऽनयोः प्रतिविशेष इति ? / अत्रोच्यते टी०-अगार्यनगारश्च व्रती भवतीत्युक्ते अत्र परः प्रश्नयति-कोऽनयोरगार्यनगारिणोतिनोः प्रतिविशेषो-वृत्तिविशेष इति / प्रतिविशेषो भेद इत्यर्थः / आचार्यस्तु तं विशेपमभिधातुकामः अत्रोच्यते इत्याह / योऽनयोर्विशेषः सोऽभिधीयते सूत्रम्-अणुव्रतोऽगारी // 7-15 // टी-महाव्रतापेक्षया अणु स्तोकं अल्पं देश इति पर्यायाः / महाव्रतानि सर्वपापभेदविरतिलक्षणानि / सर्वसात् प्राणातिपातात् विरमामीत्यादि / अयं तु न सर्वतो विरतिमातिष्ठते, १'भवति' इति घ-पाठः।