________________ सूत्र 14] . स्वोपज्ञभाष्य-टीकालङ्कृतम् 85 गारिणस्तावद् द्विविधाः सम्यग्दर्शनसम्पन्नत्वे सति गृहीताणुव्रताः प्रतिपन्नोत्तरगुणाश्च, अपरे सम्यग्दर्शनमात्रभाजो वक्ष्यमाणाः षइविकल्पाः, सम्यक्त्वोत्तरगुणप्रतिपत्ती चाष्टौ विकल्पाः / तथा द्वात्रिंशद् विकल्पाः / तत्र ये गृहीताणुव्रतास्तैरणुव्रतानि षभिः अगारिणां भेदाः प्रकारैरातानि-द्विविधं त्रिविधेन, द्विविधं द्विविधेन, द्विविधमेकविधेन, . एकविधं त्रिविधेन, एकविधं द्विविधेन, एकविधमेकविधेनेति एकैकस्मिन्नणुव्रते षड् विकल्पाः / षट् पञ्चकास्त्रिंशत् प्रतिपन्नोत्तरगुणेन सहकत्रिंशत् सम्यग्दर्शनेन सह द्वात्रिंशत् // ननु च नव विकल्पास्त्रिविधं त्रिविधेनेत्यादयः सप्तचत्वारिंशदुत्तरशतभेदनिप्पत्तेः ? सत्यं, सम्भवन्ति साधोः, न त्वगारिणः, सर्वसावधयोगप्रत्याख्यानप्रस्तावाभिधानाद्, विशिष्टविषयं तत् , सर्वसावधव्यापारप्रत्याख्यानं अनुमतेःसम्भवान्नास्ति गेहिनः, तत्पूर्वप्रयुक्तसावद्यकारम्भानुमतिमपहायैवासौ शेषं प्रत्याचष्टे इति / अत एव नियुक्तिकारेण षड्विधो विकल्प उपन्यस्तः-द्विविधं त्रिविधेनेत्यादि / द्विविधमिति न करोमि न कारयामि / त्रिविधेनेति मनोवाक्कायत्रयेण / एवं शेषविकल्पा अपि भाव्याः / त्रिविधं त्रिविधेनेत्यादिषु च त्रिषु विकल्पेषु सहानुमत्या करणत्रयमितीत्युक्तं नियुक्तिकारेण // ननु च भगवत्यादावागमे--त्रिविधं त्रिविधेनेत्यपि विकल्पोऽस्ति प्रत्याख्यानमगारिणो भगवतीश्रुतप्रतिबद्धं च तदेव तनियुक्तिकारमतविघातकारि। उच्यते--नास्ति विधातः, उत्सर्गापवादद्वारेण प्रवृत्तेः / द्विविधं त्रिविधेनेत्यादिरुत्सर्गः, सर्वस्यागारिण एभिः पहिर्विकल्पैः सर्वमेव प्रत्याख्यानं प्राप्तमापाद्यते, कचिद् विषये यः किल प्रविजिषुः प्रतिमा प्रतिपद्यते पुत्रादिसन्ततिपरिपालनार्थ तस्यैष संगच्छते विकल्पः / अथवाऽल्पाल्पं विशेष्य किश्चिद् वस्तु यदि त्रिविधं त्रिविधेन प्रत्याचक्षीत स्वयम्भूमणमत्स्यादिकमेवमप्युपपद्यते स्थूलप्राणातिपातादिविषयं वा, न सकलसावधव्यापारविषयमिति // ननु च नियुक्तिकारेण स्थूलप्राणातिपातादिविषयत्वेनोपन्यस्तः (किमिति) त्रि(द्वि)विधं त्रिविधेनेत्यादिर्विकल्पः 1 / सत्यमेतत् , उत्सर्ग एव बहुलप्रसिद्धत्वानियुक्तिकारेणावाचि / यत् पुनः कचिदवस्थाविशेषे कदाचिदेव समाचर्यते न सुटु समाचारानुपाति तन्नोक्तं, द्विविधमूत्रेषु च विविधमेव भूयसा रुध्यत इति न कश्चिद् दोषः // प्रकृतमुच्यते / भूयोऽगारिणां भेदाः "सोलॅस चेव सहस्सा, अहेव सया हवंति अहहिया / एसो उवासयाणं, वयगहणविहा समासेण ॥१॥"-आर्या -आवश्यकवृत्ती 1 श्रीभद्रबाहुस्वामिना। २'पालनाय' इति उ-पाठः। 3 'चक्षते' इति ड-पाठः / 4 छाया षोडश चैव सहस्राणि अष्टैव शतानि भवन्ति अष्टाधिकानि / एष उपासकानां व्रतग्रहणविधिः समासेन / /