________________ तत्वार्थाधिगमसूत्रम् [ अध्यायः 7 भिर्मायादिशल्यैस्त्रिभिरिति त्रीण्येव शल्यानि तैर्वियुक्तोऽन्तर्विशुद्धिप्राशस्त्यान्निःशल्यो व्रती भवतीति / तदेतदनेन प्रतिपादयति-अन्तर्विशुद्धस्य मार्गवर्तिनो यथाशक्ति क्रियानुष्ठायिनः सम्यक्त्वार्जनादिभावतः सम्पूर्णवतित्वमिति / व्रतविशुद्धेच भाविन्यन्तर्विशुद्धिरिति / / ननु च कषायाः कोपादयः सर्व एव सशल्यं मायामेकां निःकृप्य किमिति शल्यतया नियम्यत इति / उच्यते-एषा हि लब्धात्मलाभा निरोधाय कोपोदीन् ततोऽप्यात्मसामर्थेन वर्तते भुजङ्गीवोपचितविषा छलशतैर्निर्दयं दशति तथा नास्याः कश्चित् साधुवर्गादृते सुकुशलोऽपि विषवेगं निरुणद्धि, अतः सकलदोपजातप्रच्छादननिपुणा कुलटेव मायैव शल्यं, न शेषाः कपाया इति प्रधानत्वात् तन्मूलत्वाच्च मायाशल्यग्रहणम् / अतः शल्यरहितो व्रतीति स्फुटमिदम् / आह च "निःशल्यस्यैव पुनः, सर्व व्रतमिष्यतेऽहतां लोके / ___ उपहन्यते व्रतं खलु, निदानमिथ्यात्वमायाभिः // 1 // " निःशल्यतापूर्वकं व्रतित्वमिति प्रदर्शयन्नाह--व्रतान्यस्य सन्तीति व्रती / व्रतानिहिंसाविरमणादीनि तानि, व्रतित्वमश्नुवते निःशल्यता आधार इति प्रागभिहितं भूमप्रशंसातिशायनेषु मत्वर्थीयप्रत्ययविधानात् व्रतीति / तदेवमित्यादिना भाष्येण निगमयति प्रकृतमर्थम् --निःशल्यो व्रतवान् व्रती भवतीति / निःशल्यस्यैव व्रतित्वं, न सशल्यस्येति / उक्तमप्यर्थ भूय आदराभिधानार्थमभिधत्ते मतुविनोश्च समावेशार्थं व्रती व्रतवानित्येकोऽर्थ इति // 13 // सूत्रसम्बन्धो मुक्तक एव किमेष व्रती व्यपगतशल्यत्रयो हिंसाद्यभावात् यथोक्तक्रियासमूहविजृम्भितपरिणामः परित्यक्तगृहस्थव्यापारः सर्व एवागारसम्बन्धेष्वतिनिवृत्तौत्सुक्यः प्रतिज्ञायते, उताविरतोऽपि सर्वतः कश्चिद् गृही निश्चीयत इति ? / अत्रोच्यते-सामान्येन व्रतिनो लक्षणमभिधाय एषामेवाहिंसादीनां सकलविरतिविशेपादधिकृतो द्वेधा भवति सूत्रम्-अगार्यनगारश्च // 7-14 // टी०-अगारं-वेश्म तदुपलक्षणमारम्भपरिग्रहवत्तायाः, आरम्भः सूनापञ्चकं पृथिव्यादिजीवकायोपमर्दहेतुः, परिग्रहश्चेतनाचेतनो द्विपदचतुष्पदादिर्धान्यहिरण्यकनकमणिमुक्ताप्रवालादिः / एवं द्वयमप्यगारशब्देनोपलक्ष्यते / तदेतावारम्भपरिग्रहावगारं यथासम्भवमस्ति यस्य भविष्यतीति वा जाताशंसस्यापरित्यक्ततत्सम्बन्धस्य सर्वोऽप्यगारी तदभिशम्बन्धाद गृहस्थ इत्यर्थः / परित्यक्तारम्भपरिग्रहो भवेत् तद्विपरीतोऽनगार:-प्रतिपनमूलोत्तरगुणकलापः / चशब्दादगारिणोऽनगारस्य च बहुभेदत्वं प्रतिपादयिपितमिति / अ. 1 'अन्तर्विशुद्वेश्व' इति :-पाठः। 2' कोपात् सतोऽपि ' इति ङ-पाठः / 3 ' तथाप्यद्धा' इति डा-पाटः। 4 'वति निःशल्य आधार' इति क-ख-पाटः /