________________ 83 सूत्र 13] . स्वोपज्ञभाष्य-टीकालङ्कृतम् विरतियुक्तो व्रती भवति, न शल्यवानिति-शल्यवतो बतित्वं नास्ति इति सूत्रार्थः / न चात्र विकल्पः समुच्चयो वा वाक्यार्थः। विकल्पस्तावन्न भवति-निःशल्यो वा व्रती वेति / यतः समा _ नफलानां विकल्पेन प्रवृत्तिरिन्द्रियादिशब्दवत् , अभिधेयाभेदश्चानयोनिःवाक्याथविचारः शल्यत्रतिशब्दयोरतो न विकल्पः / नापि समुच्चयः, समुच्चये हि कालभेदो दृश्यते / अहरहर्नीयमान इत्यादौ तथेहाप्यन्यस्मिन् काले निःशल्योऽन्यत्र काले व्रती स्यात् / अनिष्टं चैतत् / इष्यते चैककालेन तदुभयम् , अतोऽङ्गाङ्गिभावोऽत्राश्रीयते / निःशल्यताऽङ्गम् , अङ्गी व्रतीति / वाक्यार्थश्वायम्-न हिंसादिविरमणमात्रसम्बन्धाद् व्रतीति, किं तर्हि ? शल्यापगमे सति व्रतसम्बन्धत्वाद् व्रती, बहुक्षीरघृतो गोमानिति यथा, तदभावे सतीष्वपि गोषु न गोमानित्यभिप्रायः / प्रधानानुविधायी च गुणो भवतीत्यप्रधानमङ्गी व्रती, निःशल्यतागुणो प्रधानमिति / तस्मादङ्गाङ्गिभावाभ्युपगमाददोष इति / आह च " निःशल्यस्यैव पुनः, सर्व व्रतमिष्यतेऽर्हता लोके / उपहन्यते व्रतं खलु, निदानमिथ्यात्वमायाभिः // १॥"-आर्या एनमेवार्थ भाष्येण प्रतिपादयति भा०-मायानिदानमिथ्यादर्शनशल्यस्त्रिाभिर्वियुक्तो निःशल्यो व्रती भवति।व्रतान्यस्य सन्तीति व्रती। तदेवं निःशल्यो व्रतवान् व्रती भवतीति // 13 // टी०-मायेत्यादिना / माया शाख्यम् उपधिः छद्म कषायविशेषः। शल्यशब्दः प्रत्येकममिसम्बध्यते-मायाशल्यं निदानशल्यं मिथ्यादर्शनशल्यमिति / मिमीते परानिति माया, स्वेन शाख्येन परेषां सारासारप्रमाणमादत्त इति इयन्त एत इति सुखसाध्या गृहीतहृदयावष्टम्भानवष्टम्भाः। निदायते-लूयतेऽनेनेति निदानं-अध्यवसाय विशेषः-देवेश्वरचक्रवर्तिकेशवादीनामृद्धीविलोक्य तदीययोषितां वा सौभाग्यगुणसम्पदमार्तध्यानाभिमुखीकृतमहामोहपाशसंभृतभूरितपाश्चिन्तापरिखेदितमानसोऽध्यवस्यति ममाप्यमुष्य तपसः प्रभावादेवंविधा एव भोगा भवेयुर्जन्मान्तरे सौभाग्यादिगुणयोगश्चेत्येवं निदानी लुनाति-क्षुद्रत्वाच्छिनत्ति मौक्यं सुखमिति / तच्च शल्यं महदन्तर्व्यवस्थितमनेकेन शारीरेण मानसेन च दुःखेन योजयत्यात्मानम् , अतिभूरिभूतोपमर्दनाद् बहारम्भपरिग्रहत्वादिदोषोपपत्तेश्चेति / तत्त्वार्थाश्रद्धानं मिथ्यादर्शनमभिगृहीतानभिगृहीतसन्देहभेदात् त्रिधा / तदेव शल्यं व्याघ्रामिविषसमुद्रव्याधिकुपितनृपतिशक्रवगोदप्यधिकभयकारि,जन्मान्तरशतसहस्रेष्वागामिष्वविच्छिन्नदुःखसन्तानकसङ्कटप्रपातकारित्वात् , संसारसागरपरिभ्रमणमूलकारणमशेषापायप्रभवमार्जवंजवीभावविधायि गूढकर्मग्रन्थिविजृम्भमाणदुश्चिकित्सकविपाकमात्मसात्करोति सर्वशल्यातिशायि मिथ्यादर्शनशल्यम् , एवमे १'नयमान' इति ङ-पाठः / 2 'सम्बन्धात्' इति उ-पाठः।३ 'माजवं जवीभाव.' इति क-ख-पाठः।