________________ तत्वार्थाधिगममूत्रम् [ अगायः 7 काङ्क्षा अर्जनमतिपरिणामाविच्छेदः। गृव्यतीति गोयम् / पचायच् / ग| गृद्ध इत्येकोऽर्थः / यथाऽऽमिपार्थी गृद्धो दूरत एवालोक्य चक्षुषा संपतति एवं लोभकपायनिनो यानि यानि द्रव्योत्पत्तिधामानि तेषु सम्पत्य किश्चिदासादयति / अतो गृद्धस्य भावः कर्म वा गाय॑म् / मूर्छा प्राग व्याख्यातैव / अर्थादन्योऽर्थोऽर्थान्तरम् , न अर्थान्तरं अनर्थान्तरम्। सर्व एवायमेवमनर्थकारको लोभकपायकलिविजृम्भते, न कश्चिद् भेद इति // 12 // भा०--अत्राह-गृहीमस्तावद् व्रतानि। अथ व्रती क इति। अत्रोच्यते टी-अबाहेत्यादिना सम्बन्धमुपपादयति / अत्र-अहिंसादिलक्षणपरिसमात्यवसरे पर आह-गृहीमस्तावदित्यादि / गृह्णीम इत्यवगच्छामः / इह हिंसादिविरतयो व्रतानीति / तावच्छब्दः क्रमावद्योतनार्थः / क्रमश्वायम्-प्राग् व्रतपरिज्ञानं, पश्चात् तत्सम्बन्धमात्रादेव किं व्रतित्वम् / अथ(च) प्रतिविशिष्टसम्बन्धाद् व्रतित्वमिति सन्दिहानस्य प्रश्नः // ननु च यस्योक्तलक्षणानि व्रतानि सन्ति स व्रती, किमास्पदः सन्देहः ? उच्यते-विशिष्ट एव सम्बन्धे वतित्वम् / नात्र मत्वर्थीयः सम्बन्धसामान्यमात्रविवक्षायाम् / किं तर्हि ?, [किं] विशिष्टस्य सम्बन्धिनो व्रतामिसम्बन्धाद् व्रतित्वम् / तथाचाह " मनिन्दाप्रशंसासु, नित्ययोगेऽतिशायने / संसर्गेऽस्तिविवक्षायां, भवन्ति मतुबादयः // 1 // " इति प्रशंसायामिनिः प्रत्ययो भूमार्थेऽतिशायने वा। तत्र प्रशंसाथै मिथ्यादर्शननिदानमा याशल्यादिरहितत्वात् प्रशस्तस्य सम्बन्धिनो व्रताभिसम्बन्धाद् व्रतित्वम् , प्रतवतिनोः ___अतिशायनार्थेऽपि अयमेव मिथ्यादर्शनाद्यपगमात् प्रकृष्टस्य सम्बन्धिनो सम्बन्धः व्रताभिसम्बन्धाद् व्रतित्वम् , भूमार्थेऽपि पूर्वोक्तभावनाभिः स्थिरीकृत चेतसोऽपायावद्यदर्शिनो विचक्षणस्य सर्वसंसारिक्रियाकलापदुःखबुद्धथा निरुत्सुकविषयकुतूहलस्य मैत्रीप्रमोदकारुण्यमाध्यस्थ्यप्रणिधानापादितसौहार्दस्य जन्ममरणपरिखेदितमतेरवलोकितशरीरस्वभावस्य मुक्ति प्रत्यवहितचेतसो मायानिदानमिथ्यादर्शनशल्यशून्यस्य व्रताभिसम्बन्धाद् व्रतित्वमिति चेतसि सन्निवेश्य आचार्यः अत्रोच्यत इत्याह / सूत्रम्-निःशल्यो व्रती // 7-13 // ___टी-शलतीति शल्यम् / आणादिको यप्रत्ययः / अन्तर्भिनत्ति कायादि, तचावतिप्रमानं वपुषि बलारोग्यपरिहाणिमापादयति शरीरिणः, तद्वन्मायानिदानमिथ्यात्वानि अन्ततानि वर्तमानानि संयमस्वरूपभेदित्वादनारोग्यमात्मनः क्लेशज्वरलक्षणं ज्ञानावरणवीर्यहानि च विदधतीत्येतत् शल्यानीव शल्यानि / निष्क्रान्तः शल्येभ्यो निःशल्यः प्राणातिपातादि १'गार्धः' इति ङ-पाठः / 2 इदं पद्यं दृश्यते सिद्धान्तकौमुद्यां ( पा० अ० 5, पा. 2, सू. 94 ) /