________________ सूत्र 12] . स्वोपज्ञभाष्य-टीकालङ्कृतम् मूर्छा, सैव च परिग्रहसद्भावपरिणामादात्मनो हिंसादिवत् प्रमत्तयोगानुवृत्तिसामर्थ्यात् संक्षेपतो रागद्वेषमोहमूला मूर्छा / तद्विरहितस्याप्रमत्तकायवाङ्मनोव्यापारस्य तु संयमोपकारिघुपधिशय्याहारशरीरेष्वागमानुज्ञातेषु न समस्ति मूछों / यथोक्तम् " 'जंपि वत्थं व पायं वा, कंबलं पायपुंछणम् / तंपि संजमलज्जहा, धारंति परिहरंति य (अ) // 1 // " -दशवैकालिके (अ० 6, मू० 18) न च योग्योपकरणकलापाहते साध्यार्थसिद्धिरस्ति / येऽपि मूढाः पात्रवस्त्रादि आगमोक्तं मुक्तिसाधनमुपकरणमहिंसाव्रतपरिपालनप्रत्यलं न परिगृह्णते तैरपि जघन्यतः शरीराहारशिप्यादिपरिग्रहोऽवश्यंतया कार्य एवेति न परमनालोच्यैवोपालब्धुमर्हन्तीति / अल्पबहुत्वविशेष इति चेदित्यप्यसत् / दरिद्रस्य द्रविणमल्पं महर्द्धिकस्य प्रभूतमिति न दुर्गतोऽपरिग्रह इत्युच्यते / तस्मात् मूीलक्षण एव परिग्रहः, नेतर इत्यवश्यंतया प्रतिपत्तव्यमवशेनापीति // प्रकृतमुच्यते / मूर्छालक्षितपरिग्रहनिर्दिदिक्षया भाष्यकृदाहभा०-चेतनावत्स्वचेतनेषु बाह्याभ्यन्तरेषु द्रव्येषु मूर्छा परिग्रहः // टी-चेतनावत्स्वित्यादि / चेतना-चैतन्यं-ज्ञानदर्शनोपयोगः स येषु विद्यते ते चेतनावन्तस्तेषु चेतनावत्सु-एकद्वित्रिचतुःपञ्चेन्द्रियेषु अचेतनेषु च-पायो वास्त्वादिषु पाह्याभ्यन्तरभेदभाक्षु रागादिषु आत्मपरिणामेषु मूर्छा, द्रव्येषु इति विषयनिर्देशात् कचित् पुद्गलद्रव्यमेव शुद्धं कचिदात्मप्रदेशसंयुक्तमिति / द्रव्यग्रहणाच्चतुर्विधपरिग्रहं सूचयतिक्षेत्रतो ग्रामनगराधवच्छिन्न[ता]द्रव्यस्य, कालतो रात्रिंदिवव्यवच्छिन्नता, भावत इति प्रतिविशिष्टवस्तूपलम्मे महार्थे सति अतिशयवती मूछो प्रजायते मध्ये मध्या जघन्ये जघन्या इति // मूछायावासंमोहार्थमिच्छादीन् पर्यायानाचष्टे भाष्यकारः ... भा०-इच्छा प्रार्थना कामोऽभिलाषः काङ्क्षा गायें मूर्छमूर्छायाः पर्यायाः "त्यनर्थान्तरम् // 12 // टी-इच्छा-शतधनः सहस्रमिच्छति सहस्रधनो लक्षमिच्छतीत्यादि परम्परया सकलेन त्रैलोक्येनापि न ध्रायति / प्रकर्षेणार्थना प्रार्थना, तनिष्ठत्वात् विद्यमानकिञ्चनमायोऽपि परमेव याचते तृष्णया वशीकृतः। कमनं कामः, यथाप्रधानद्रव्यकामिता, यद यद् गुणवद् द्रव्यं तत् तदनुरुध्यत इतियावत् / अभिलाषस्तु मानस एव व्यापारः, परर्द्धिदर्शनादाक्षिप्तचित्तवृत्तिर्मनसाऽभिलपति-एवं ममापि यदि भवेयुः सम्पद इति / काक्षणं छाया यदपि धन्न वा पात्रं वा कम्बलं पादप्रोग्छनम् / तदपि संयमलज्जार्थ धारयन्ति परिभञ्जते च // 2. दुर्गतिपरि' इति उ-पाठः। 3 'निर्देशः' इति उ-पाठः। 4 'चेतोवृत्ति' इति -पाठः /