________________ अध्यायः 7 तत्त्वार्थाधिगमसूत्रम् भा०-अत्राह-अथ परिग्रहः क इति ? / अत्रोच्यते टी०-अत्राहेत्यादिना सम्बन्धकथनम् / अवधूतहिंसादिलक्षणचतुष्टयोऽपरलक्षणाभिधानप्रस्तावे प्रश्नयति-अथ परिग्रहः क इति? / अथ-अब्रह्मानन्तरं परिग्रह उपदिष्टः, स किंलक्षणविषयः 1 प्रश्ने आचार्य आह-अत्रोच्यते-अत्र-लक्षणप्रश्नेऽभिधीयते / बाह्याध्यात्मिकोपधिविशेषसंरक्षणक्षयार्जनसङ्गपर्येषणा या सैव हि शब्दान्तरनिर्दिष्टा परिग्रहलक्षणम् सूत्रम्-मूर्छा परिग्रहः // 7-12 // टी०-अत्र प्रमत्तयोगादित्यनुवर्तते / मूछेति / "मूर्छा मोहसमुच्छ्राययोः"(पा० धा० 212) मूच्छर्यतेऽनया आत्मेति मूर्छा-लोभपरिणतिः तया आत्मा मोहमुपनीयते-विवेकात् प्रच्याव्यते, प्रच्युत विवेकश्च प्रतिविशिष्टलोभकपायोपरागादसमञ्जसप्रवृत्तिप्रवणोऽयमात्मा कार्यमकार्य वा न किञ्चिचेतयते, समुपगूढमूढिस्तृष्णापिशाचिकावशीकृतवेतोवृत्तिश्चेष्टतेऽन्धवधिरवदनालोचितगुणदोषः। समुच्छ्रायो वा मूर्छा, समुच्छीयते-प्रतिक्षणमुपचीयतेऽयमात्मा लोभोपरागवलानुरञ्जितो हिंसादिदोषैः / अतः सकलदोपाग्रणीर्लोभः। तथाच लुब्धो हिंसादिषु निरारेकं प्रवर्तते / तनयः पितरमपि हिनस्ति, भ्रातरं सहजः, पिताऽऽत्मजं, एवं जामिजननीपन्या दयोऽपि वाच्याः। गृहीतोत्कोचश्व कूटसाक्षित्वदायी बनृतं भाषते, बललोभस्य साम्रा प्रहर्षात पथि मुष्णाति पथिकजनं खनति क्षेत्रमपि चौर्यात / लाभलोभाच्च ज्यम् राजादियोषितमप्यभिगच्छति / सर्वथा न कश्चन भावो बहिरन्तर्वा समासमो दूरवर्ती वा मनोहरदर्शनः प्रतिकूलो वा यमयं विजयाद् भावेन, प्रचुरतरानिष्टसम्पादने लघू. नि चोपनीयते दुश्चरितानि लोभभुजङ्गेन / अनेन पथिकृतः परमगौरवायतनेऽपि विषयपरिगा. येन परिस्खलतीति मूच्छो लोभ इति / स चापि सर्वैः प्रकारैः / सा च मूछो लोभलक्षणा __ अभ्यन्तरबहिर्विषयालम्बना / तत्राभ्यन्तरो विषयः चतुर्दशविधः, बाह्याभ्यन्तरा तद्यथा-राग-द्वेष क्रोध-मान-माया-लोभ-मिथ्यादर्शन-हास्य-रत्य-रतिमूछोविषयाः " भय-शोक-जुगुप्सा-वेदाख्यः / बहिरपि वास्तुक्षेत्रधनधान्यशय्यासनयानकुप्यद्वित्रिचतुःपाद्भाण्डाख्य इति / एतावान् विषयो मूच्छायाश्चेतःपरिणामरूपाया। एते रागादयः परिग्रहहेतुत्वात् मूर्छा, वास्त्वादयश्च ममैवेत्येवमज्ञानाद् विषयीकृताः कालुध्यवेताऽऽत्मनोऽनेकविधजन्मग्रन्थिस्थिरीकरणायापर्यालोचितपूर्वापरभावेन परिग्रहोऽभिधीयते। परिगृह्यत इति परिग्रहः, लोभानुरक्तचित्तवृत्त्या स्वीक्रियत इतियावत् / परिमाणविशेषो १'लोभपुराम' इति उ-पाठः। २'तथा अवलुब्धो' इति उ-पाठः। ३'क्षणमपि चोरयति' इति ग-पाठः। ४'गर्धेन' इति स्-पाठः / 5 'बत् आत्मना' इति ङ-पाठः।