________________ 79 सूत्रं 11] . स्वोपज्ञभाष्य-टीकालङ्कृतम् '"कामं सव्वपदेसुवि, उस्सग्गववातधम्मता जुत्ता। मोत्तुं मेहुणभावं, ण विणा सो रागदोसेहि // १॥"-आर्या अतश्चानर्थकमेव प्रमत्तग्रहणमत्रेति / मण्डूकप्लुत्या चाधिकारानुवृत्तिः। असंख्येयलोकाकाशप्रदेशपरिमाणबृहत्वादात्मा ब्रह्मा / स च मैथुनानुस्मृतिसंस्कारस्पृहेन्द्रियालोकप्यरसविषयविकथासत्कृतिसंसक्तसेवाभेदाद् दशविधाद् अब्रह्मणो निवृत्तश्चरन् ब्रह्म-ब्रह्मध्वनिवाच्यः आत्मैव चरणं चर्यम् आत्मनो ब्रह्मणः सेवनमात्मनि आमरणं न बहिर्मुखचित्त. त्तिता स्यादिविषया, अतो मनोवाकायैः कृतकारितानुमतियुक्तैः परिहारोऽङ्गनाविषयः सर्वथा ब्रह्मचर्यमात्मन्येव वृत्तेः, संवृतेन्द्रियद्वारत्वात् / तद्विपरीतमब्रह्म / तच्च तीव्ररागानुवन्धिना सङ्कल्पेन चोदितः कायव्यापारो दशनकोटिकृतालिङ्गनकरजघट्टनालक्षणम्तत्कालरमणीयक प्रलापश्चानेकविधो वाग्व्यापारो विपरीतदर्शनाहितात्मकतिपयप्रेमलेशात् स्वकल्पनासमारोपितमनोज्ञकानुपजातातुलविषयतर्षपरिमुषितशेमुषीकान् पुंसः क्रशयत्यतितराम् / तथाचानुकूलत्वाद् दुस्त्यजमपीदमशुचित्वादिभावनाजालसंस्पर्शनाद् विवेकिनो जहत्यवधीरितमकरध्वजप्रसराः / तदेतदब्रह्म यथोक्तलक्षणं भाष्येण प्रकाशयन्नाह मा०-स्त्रीपुंसयोमिथुनभावः मिथुनकर्म वा मिथुनं तद्ब्रह्म // 11 // टी०-स्त्रीपुंसयोरित्यादि / स्त्री च पुमांश्च स्त्रीपुंसौ / “अचतुरा"दि (पा० अ० 5, पा० 4, सू० 77) सूत्रलक्षितः स्त्रीपुंसशब्दः / तयोः स्त्रीपुंसयोरेंद्भुततीव्रदेहपरिणामयोमिथुनता-मिथुनभावश्चित्तपरिणामो मोहकर्मोदयात् क्लिष्टः परस्परमाश्लेषे सति सुखमुपलभमानयोः स्त्रीपुंसग्रहणादेवोदितवेदयोर्यो मिथुनभावः कृत्तद्धितसमासानां चाभिधानलक्षणत्वात् प्रति विशिष्टमैथनकर्मसंप्रत्ययो न पुनः प्रयोजनवशादासनप्रदेशस्थितस्त्रीपुंसमिथुनमात्रं मिथुनभावो मथुनकर्म वाऽभिधीयते / ततश्च स्त्रीप्रवजितयोश्चैत्याभिवन्दनादिकर्मण्यप्रसङ्गो मिथुनभावस्य / तद् अब्रह्मेत्यनेन तच्छब्देन स्त्रीपुंसादिलक्षणो मिथुनभावो मिथुनकर्म वा सर्वमेतन्मैथुनमब्रह्मेति निगमनद्वारेण परामृश्यते / स्त्रीपुंसग्रहणं प्रधानत्वात् पूर्वोक्तसकलविकल्पप्रतिपादनार्थम् / प्रधानं च स्त्रीपुंसयोमिथुनभावः, पृथगनाचरितास्तु शेषविकल्पाः / ते च स्त्रीपुंसग्रहणेन सर्वेऽपि सूचिताः / तदेतदब्रह्म संक्षेपतो रागद्वेषमोहमलमनर्थपरम्परा रागात परदाराभिगमलाभसकारात्ममित्रत्राणार्थमासेवते द्वेषाद वैरनिर्यातनार्थ मोहात् स्वस्रादिपरिभोगाद्यनुष्ठानमविच्छिन्नविषयपिपासाः समाचरन्ति / साधवस्तु विवेकबलादुपशान्तरागादिरजसः सवोत्मना परिवजेयन्तीति // 11 // 1 छाया कामं सर्वपदेष्वपि उत्सर्गापवादधर्मता युक्ता। मुक्त्वा मैथुनभावं न विना स रागद्वेषौ // २'वोदितः' इति ड-पाठः। ३'लाप्रतापश्च' इति पाठः। ४'मत' इति पाठ ५'संप्र. त्ययोन पुनः' इति ङ-पाठः। ६'च' इति ग-पाठः।