________________ तत्त्वार्थाधिगमसूत्रम् [अध्यायः 7 प्रायदुर्विदग्धजनप्रहत एष पन्था उपेक्षणीयः, सप्रत्यवायत्वादिति / सर्व चेदं रागद्वेषमोहमूलम् / उक्तं मोहर्ज, रागजं तु यस्य येनार्थित्वं स तस्यापहारमाचरति लाभसत्कारयशःसमावर्जनार्थ वा, द्वेषजं वैरप्रतियातनार्थमिति // 10 // भा०-अत्राह-अथाब्रह्म किमिति ? / अत्रोच्यते टी०-अत्राहेत्यादिना सम्बन्ध प्रतिपादयति / अत्रेति व्याख्याते हिंसादित्रयलक्षणे पर आह--अथाब्रह्म किमिति ? / अथेत्यानन्तर्यसूचकः / ब्रह्मणोऽन्यद् अब्रह्म / तत् किंलक्षणमिति प्रश्ने सत्याह अब्रह्मलक्षणम् सूत्रम्-मैथुनमब्रह्म // 7-11 // टी०-मिथुनं द्वयमुच्यते / तत् कदाचित् द्वयमपि सचेतनं, कदाचिदे सचेतनं एकमचेतनम् / तत्राद्यं पुरुषवेदोदयात् पुमानुदितस्त्रीवेदया दिव्यमानुषतिर्यकस्त्रिया सह संयुज्यते / अथवा पुरुषेण नपुंसकेन फलादिविवरेण स्वहस्तादिना वा / एवं योपिञ्चेतन कन्दादिभिरन्यहस्तादिभिरपीति / पश्चिमविकल्पे तूदितवेदः पुमान् अचेतनाभिर्दिव्यमानुषतिर्यक्स्त्रीप्रतिमाभिर्लेप्यकाष्ठोपलपुस्तचित्रकर्मादिरूपाभिः सह संपूच्यते। अन्यैश्वाचित्तस्रोतोभिर्मतशरीरकेण वा / तथा योषिद् अवेतनपुरुषप्रतिकृतिवर्तिना लिङ्गेन काष्ठशलाकादिना वा युज्यते बहुप्रकारेण कृत्रिमोपकरणेन विडम्बयत्यात्मानम् , एवं सर्वत्र मिथुनसम्भवः / तयोर्भावो मैथुनं अविकृतत्वाद् युवादेराकृतिगणत्वादण / अथवा मिथुनस्येदं कर्म, “तस्येदं " (पा० अ० 4, पा० 3, सू० 120 ) इति अण। अचेतनमपि हि वस्तु प्रतिमादि विवक्षिततत्कर्मयोग्यतया परिणममाणमनुग्राहकं तथा भवतीति समीचीनमेवेदं तयोर्भावो मैथुनमिति / आगमस्तु द्रव्य-क्षेत्र-काल-भावभेदाचतुर्धा / मैथुनं द्रव्यतो रूपेषु वा रूपसहगतेषु वा द्रव्येषु, रूपमचेतनं पुद्गलद्रव्यमानं प्रतिमादि, न तु वर्णमात्रमेव, रूपसहगतेषु वा द्रव्येष्विति रूपं तदेव पुद्गलद्रव्यं तादृशा रूपेण सह संभूय गतानि यानि जीवद्रव्याणि, गतानीत्यन्यानुवेधिना परिणामेन परिणतानि चेतनाभाजि शरीराणीत्यर्थः / तद्विपयं मैथुनं द्रव्यतः, क्षेत्रतोऽनन्तरवत् / भावो हि रागद्वेषपरिणाम आत्मन इत्यतः प्रमत्तयोगादिति . अत्रानुवर्तमानमपि नोपयुज्यते, यत्राप्रमत्तस्य सतस्तथाभावे सति कर्मबन्धाभावस्तत्र प्रमत्तयो गग्रहणमर्थवद् भवति-प्रमत्तस्य कर्मबन्धो नाप्रमत्तस्येति, प्राणातिपातप्रमत्तयोगा वत् , इह पुना रागद्वेषान्धयाविच्छेदात् सर्वास्ववस्थासु मैथुनासेविनः कर्मनोपयोगे हेतुः बन्ध इति / आह च-(वृहत्कल्पे ) दित्यस्य १'पुस्तकचित्र' इति ङ-पाठः / 2 'त्यन्योऽनुवेधिना' इति ङ-पाठः /