________________ 70 ] कर्मविपाकाख्ये प्रथमे कर्मग्रन्थे द्वितीयदशकं तु पुनरेतेनामभेदैर्भवति / दुःस्वरानादेयैः, बहुवचनं प्राकृतत्वात् "बहुवयणेण दुवयण" इत्याधुफ्तेः / 'अजसेहिं य' अत्र बहुश्चनमयशःकीर्त्तरनेकधा ख्यापनार्थम् / इति गाथार्थः // 132 // ....अस्यैव स्थावरदशकस्यान्तर्वतिसंज्ञात्रयमाह (पारमा०) 'आये' प्रकृतिपिण्डे त्रसचतुकमिति संज्ञा भवति 'स्थिरादिषट्कं तु' स्थिरादिषट्कसंज्ञं तु 'उपरिमं प्रकृतिपिण्डरूपं भवति इत्युक्तं प्रकृतिदशकस्य समस्तव्यस्तस्य सदशकत्रसचतुष्कस्थिरादिषट्कलक्षणं संज्ञात्रयम् / द्वितीयं दशकं प्रस्तावनापूर्वमाह-स्थावरदशकमधुनोच्यत इति शेषः / स्थावरं 1 सूक्ष्मं 2 अपर्याप्तम् 3 // 131 // 'होइ. तहा साहारं' इति, भवतीत्यग्रे योश्यते / साधारणं साधारणनाम 4 / "थावरसुहुमं च साहारं // तह होइ अपजत्तं" इति त्वपपाठः पर्याप्तप्रत्येकयोः सेतरत्वस्योच्छृङ्खलतापत्तेः / अस्थिरं 5 अशुभं 6 च दुर्भगं चैव 7 'दूसरणाइजेहिं य' इति दुःस्वरा 8 नादेयाम्यां 6, 'अजसेहिं' य इति अयश कीर्तिनाम 10 च द्वितीयदशकं भवति / इति गाथाद्वयार्थः // 13 // स्थावरदशकस्यापान्तरालसंज्ञात्रयमाह आइम्मि थावरचऊ, सुहमतिगं उवरिमं भवे इत्थ / अथिराइछक्कमुवरिं, 'विधागभेयं अओ भणिमो // 133 // (पू०)व्याख्या-'आदौ प्रथमं 'स्थावरचतुः' स्थावरसूक्ष्मसाधारणापर्याप्तनामानि स्थावरचतुष्कसंझं भवति विज्ञेयमिति शेषः / 'सूक्ष्मत्रिक' सूक्ष्मत्रिकसंज्ञं 'उपरिम' स्थावरनाम्न ऊर्ध्व सूक्ष्मसाधारणापर्याप्तनामानि सूक्ष्मत्रिकसंज्ञं भवेत् 'अत्र' शासने अस्थिरादिषट्कमुपरि तस्यैव स्थावरदशकस्यायं स्थावरचतुष्कं विहाय / अस्थिर 1 अशुभ 2 दुर्भग 3 दुःस्वर 4 अनादेय 5 अयशांसि 6 षट् अस्थिरादिषट्कमुच्यते / 'विपाक भेदः' अनुभवभेदः 'एतासां' नामप्रकृतीनां 'अयं वक्ष्यमाणलक्षणो 'भणितः' प्रतिपादितः / ननु किमर्थमिदं संज्ञाकरणम् ?, उच्यते-शास्त्रे व्यवहारार्थम् / इति गाथार्थः // 133 // सनाम्न उदयमाह (पारमा०) 'आये' प्रकृतिपिण्डे 'थावरचऊ' इति स्थावरेणोपलक्षितं चतुष्कं स्थावरसूक्ष्मापर्याप्तकसाधारणलक्षणं स्थावरचतुष्कसंज्ञमिति गम्यम् / 'सूक्ष्मत्रिक' सूक्ष्मत्रिकसंझं 'उपरिमं स्थावरस्य सूक्ष्मअपर्याप्तकसाधारणलक्षणं भवेत् 'अत्र' स्थावरदशके च 'अस्थिरा 1 “विवागभेओ इमो होइ" इत्यपि पाठः / व्याख्याकारेण तु "विवागभेओ इमो मणिओ” इति पाठानुसारेण व्याख्यातमस्ति 2 ०भेदश्चानुभवभेदश्चैतासां जे।