________________ ___ स्थावर दशकान्तवर्तिसंज्ञात्रय-त्रसादिनाम-स्वरूपफलादिवर्णनम् / 71 दिषट्कं' अस्थिरादिषट्कसंझं उपरि सूक्ष्मत्रिकस्य अस्थिरअशुभदुर्भगदुःस्वरअनादेयअयशःकीर्तिलक्षणं विपाकभेदम् , अतः संज्ञाचतुष्टयभणनानन्तरं भणामः इति गाथार्थः॥१३३॥ सम्प्रति सेतरत्वक्रमेण त्रसस्थावरयोर्विपाकमाह-- तसनामुदए जीवो, बेइंदियमाइ जाइ 'जीवेसु / थावग्नामुदए 'पुण पुढवीमाईसु सो जाइ // 134 // (पू०) व्याख्या-'सनानः कर्मणः उदये' विपाके 'जीवः' प्राणी 'दोन्द्रियादिः आदिशब्दात्रीन्द्रियादयः पञ्चेन्द्रियावसाना गृह्यन्ते, मकारोऽलाक्षणिकः प्राकृतत्वात , तेषु 'याति' गच्छति, जीवेषत्पद्यत इत्यभिप्रायः / 'स्थावरनाम्नः' कर्मणः 'उदये' विपाके पुनः 'पृथिव्यादिषु' आदिशब्दादप्तेजोवायुवनस्पतिषु मकारोऽत्राप्यलाक्षणिकः 'सः' जीवो 'याति' उत्पद्यते / इति गाथार्थः // 134 // उक्तस्त्रसस्थावरनामोदयः, साम्प्रतं वादरसूक्ष्मोदयम्वरूपमाह-- (पारमा०) त्रस्यन्ति उष्णाद्यभितप्ताश्छायाद्यासेवनार्थ स्थानान्तर मिति त्रसाः. तद्विपाकवेद्यं नाम त्रसनाम, तस्योदये जीवो' 'दीन्द्रियादिजोवेषु' द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियपञ्चेन्द्रियेषु 'याति' गच्छति / तद्विपरीतं स्थावरनाम तस्योदये पुनरुष्णाद्यभितापेऽपि तत्स्थानपरिहारासमर्थेषु 'पथिव्यादिषु' पृथिव्यप्तेजोवायुवनस्पतिषु स जीवो याति / ननु अग्नेरूद्धज्वलनं वायोस्तिर्यपवनमिति कथमनयोः स्थावरत्वमिति 1, सत्यम् , ऊर्ध्व ज्वलनं तिर्यपवनं चैतयोः स्वाभाविकमेव न तृष्णाद्यभितापे द्वीन्द्रियादीनामिव / तथाहि-अग्नेविंध्यापकजलधारास्वपि न परिहारबुद्धिर्वायोर्वा विनाशकानावपीति, तस्मात्स्वाभाविकगमने बुद्धिपूर्वकत्वाभावात्स्थावरत्वं न विरुद्धम् / इति गाथार्थः // 134 // अधुना बादरसूक्ष्मे आह बायरनामुदएणं. बायरकाओ'उ होइ सो नियमा। सुहुमेण सुहुमकाओ. अंतमुहुत्ताउओ होइ // 135 // (पू०) व्याख्या-'घादरनाम्नः कर्मणः 'उदयेन' विपाकेन 'बादरकाय एव' स्थूलकाय एव 'भवति' जायते, 'सः' जीवः 'नियमात् ' अवश्यंतया 'सूक्ष्मेण' सूक्ष्मनामकर्मोदयेन 'सूक्ष्मकाय:' श्लक्ष्णकायो भवति / स च भवन् कियत्कालायुर्भवति ? इत्याह-'अन्तर्मुहयुर्भवति' मुहूर्तमध्ये कालं करोतीत्यर्थः / इति गाथार्थः // 13 // 1 "जाईसु" इत्यपि पाठः / 2 “ण” इत्यपि पाठः / 3 "य" इत्यपि पाठः।