________________ 72 कर्मविपाकाख्ये प्रथमे कर्मग्रन्थे पर्याप्तिसंख्याद्वारेण येषां प्राणिनां यत्परिमाणाः पर्याप्तयो भवन्ति तदर्शयितुमाह (पारमा०) वादरत्वं यद्वशात्पृथिव्यायेकैकस्य जन्तुशरीरस्य चक्षुह्यताया अभावेऽपि बहूनां समुदायस्य चक्षुर्गाद्यता - भवति स परिणामविशेषः, तन्निबन्धनं नाम बादरनाम. तस्योदयावादरकायः म प्राणी नियमेन भवति / तद्विपरीतं मूक्ष्मनाम, यदुदयान कदाचिदपि देहिदेहस्य चक्षुर्पाद्यता भवति तेन सूक्ष्मकायः, स चान्तमुहर्तायुर्भवतीनि प्रसङ्गतोऽभिहितम् / ' इति गाथार्थः॥ इदानीं पर्याप्तापयप्तियोरवसरः, तत्र पर्याप्तनाम यदयात्म्बयोग्यपर्याप्तिनिवर्तनसमों भवति, अतः पर्याप्तिनिरूपणपूर्वकं तदाह.. आहारसरीरिंदिय-पजत्ती आणपाणभाममण। ... - चत्तारि पंच छप्पिय. एगिदियविगलमन्नीणं // 136 // (पू०) व्याख्या-आहारशरीरइन्द्रियानप्राणभाषामनःपर्याप्तयः षड् भवन्ति / ताश्च चतस्रः पञ्च षडपि 'चैकेन्द्रियविकलसंज्ञिनां यथासंग्ख्येन भवन्ति अपिशब्दान्न भवन्ति च, केषांचिरपर्याप्तानामेव कालकरणात् / नन्वेकेन्द्रियादीनां पर्याप्तिसंख्योक्ता, अमंज्ञिनां तु पञ्चेन्द्रियसम्मूर्छजानां नोक्ता, तत्कथं तेषां संख्याऽवसीयते ? इत्याह-तेषामपि पञ्चैव पर्याप्तयो मनोरहितत्वात् / एतदपि कुतः ?, संज्ञिविशेषणान्यथानुपपन्या, तदेव सार्थकं भवेत् संज्ञिविशेषेणं यदैव संज्ञिन एव षट् पर्याप्तयो नासंज्ञिनः / अन्यथा व्यवच्छेद्याभावात्संज्ञिग्रहणं निरर्थक स्यात , तस्मात्संज्ञिग्रहणसामर्थ्यात्पारिशेष्यन्यायाचासंज्ञिनां पञ्चेन्द्रियाणां पञ्चैव पर्याप्तयो भवन्तीति कृतं प्रसङ्गेन / प्रकृतं प्रस्तुमः / इति गाथार्थः // 136 // उक्ता पर्याप्तिसंख्या, साम्प्रतं सहेतुकं पर्याप्तिस्वरूपमाह (पारमा०) 'आहारसरीरिंदियपजत्तित्ति' आहारपर्याप्तिः शरीरपर्याप्तिरिन्द्रियपर्याप्तिरिति पर्याप्तिशब्दः प्रत्येकं योज्यते / 'आणपाणभासमणे' इत्यत्रापि तेनानपानपर्याप्ति औषापर्याप्तिमनःपर्याप्तिरिति / तत्र यया बाह्यमाहारमादाय खलरसरूपतया परिणमयति साहारपर्यासिः / यया रसीभूतमाहारं रसासृग्मासमेदोऽस्थिमजशुक्रलक्षणसप्तधातुरूपतया परिणमयति सा शरीरपर्याप्तिः / यया धातुरूपतया परिणमितमाहारमिन्द्रियरूपतया परिणमयति सा इन्द्रियपर्याप्तिः / यया पुनरुच्छ्वासप्रायोग्यवर्गणादलिकमादायोच्छ्वासरूपतया परिणमय्यालम्ब्य च मुश्चति सा उच्छ्वासपर्याप्तिः। यया तु भाषाप्रायोग्यवर्गणादलिकं गृहित्वा भाषात्वेन परिणमय्यालम्ब्य च मुश्चति सा भाषापर्याप्तिः / यया पुनर्मनोयोग्यवर्गणादलिकमादाय मनस्त्वेन परिणमय्यालम्ब्य च मुश्चति सा मनःपर्याप्तिः / एताश्च यथाक्रमं चतस्रः पञ्च षट् च एकेन्द्रियविक 1 एके० जे०।