________________ त पजत . पर्याप्ता-ऽपय त प्रत्येक-साधारणनामस्वरूपफलादिवर्णनम् लेन्द्रियसंज्ञिनां भवन्ति / यत्तु तत्त्वार्थे पर्याप्तीनां पञ्चसंख्यात्वमुक्तं तदिन्द्रियपर्याप्ती मनःपर्याप्तेरन्तर्भावात् / यत्पुनरागमे तदेवं, यथा भगवत्याम्-"तए णं से ईसाणे देविंदे देवराया पंचविहाए पजत्तोए पज्जत्तिभावं गच्छइ, तंजहा-आहारपज्जत्तीए 1 सरीरपज्जत्तीए 2 इंदियपजत्तीए 3 आणपाणपजत्तीए 4 भासामणपजत्तीए 5 / " इति॥१३६॥ एयासि निप्फत्ती, उदएणं जस्स होइ कम्मस्स / तं पजत्तं नामं, इयरुदए नत्थि निप्फत्ती // 137 // (पू०) व्याख्या-'एतासां' पूर्वोक्तपर्याप्तीनां 'निष्पत्तिः' नित्तिः 'उदयेन' विपाकेन यस्य भवति कर्मणस्तत् 'पर्याप्तं नाम' पर्याप्तिसंज्ञकमुच्यत इति शेषः / 'इतरस्य' अपर्याप्तनाम्नः 'उदय' विपाके 'नास्ति' न विद्यते 'निष्पत्तिः' निवृत्तिः पर्याप्तेरिति गम्यते / इति गाथार्थः // 137 // उक्तं पर्याप्ति(प्त)नाम. साम्प्रतं प्रत्येकनामाह- . ____ (पारमा०) 'एतासां' प्ररूपितस्वरूपाणां 'निष्पत्तिः' परिसमाप्तिः 'यस्य' कर्मण उदयेन भवति तत्पर्याप्तकनाम / अपर्याप्तकमाह-इतरत् अपर्याप्तकनाम तस्योदये-नास्ति निष्पत्तिरेतासामित्यत्रापि योज्यम् / इति गाथाद्वयार्थः // 137 / / उक्ते पर्याप्तापर्याप्तकनाम्नी, सम्प्रति प्रत्येकनामाह-- एक्किक्कयम्मि जीवे, इक्किक्कं जस्स होइ उदएणं / 'ओरालाइसरीरं, तं नाम होइ पत्तेयं // 138 // (पू०) व्याख्या-एकैकस्मिन् 'जीवे' प्राणिनि 'एकैक' शरीरं भवति, यथा वृक्षादीनां पत्रादिषु जायते 'यस्य' कर्मणः 'उदयेन' विपाकेन, किम् ? इत्याह-औदारिकं शरीरं तन्नाम कर्म भवति प्रत्येकसंज्ञकं नाम / इति गाथार्थः / / 138 / / उक्तं प्रत्येकनाम, अधुना साधारणनामाह (पारमा०) एकैकस्य जीवस्य 'यस्य' कर्मण उदयादेकै औदारिकादि, आदिशब्दादै - क्रियमाहारकं वा शरीरं भवति तत्प्रत्येकनाम भवति / इति गाथार्थः // 138 // साधारणमाह जीवाणमणंताणं, इक ओरालियं इह सरीरं / हवइ 'हु जस्सुदएण, तं साहारं 'हवइ नामं // 139 // 1 व्याख्याकारेण तु “ओरालियं सरीरं" इति पाठानुसारेण व्याख्यातमस्ति। 2 "यथा शालिमु. द्रयवादिषु" जायते जे० / 3 "य" इत्यनुसारेण व्याख्याकारेण व्याख्यातं / 4 "भवे" इत्यपि पाठः, तथैव .. व्याख्याकाराः।।