________________ कर्मविपाकाख्ये प्रथमे कर्मग्रन्थे (पू०) व्याख्या-'जीवानां' प्राणिनां 'अनन्तानां' अपरिमिताना 'एक' सर्वेषामेव प्राणिनां यथा सूरणादीनामनेकप्राणिनामेकं शरीरं, किम् ? 'औदारिक' प्रतीतं 'इह' अस्मिन् लोके शीर्यत इति शरीरं भवति च यस्योदयेन तत्साधारणं भवेन्नाम नामैव, चशब्दस्यैवकारार्थत्वात् / इति गाथार्थः // 136 // / उक्तं साधारणनाम, अधुना स्थिरनामाह-- (पारमा०) अनन्तानां जीवानामेकमौदारिकं शरीरं 'इह' संसारे देशीकुट्यायेकनिवासवदुर्गतानां निश्चितं यस्य कर्मण उदयाद्भवति तत् 'साहारं' साधारणनाम भवति / इति गाथार्थः // 139 // स्थिरनामाह-- दंतट्ठाइथिराणं, अंगावयवाण जस्स उदएणं / निप्फत्ती उ सरीरे, 'जायइ तं होइ थिरनामं // 140 // (पू०) व्याख्या-'दन्तास्थ्यादिस्थिराणां' दन्तास्थिनी प्रतीते, आदिशब्दाच्छिरोनासिकादिपरिग्रहः, स्थिराणामचलानां 'अङ्गावयवानां' शरीरावयवानां 'यस्य' नाम्नः कर्मणः 'उदयेन' विपाकेन 'निष्पत्तिस्तु शरीरे' निवृत्तिस्त्वङ्गे 'जायते' निष्पद्यते तद्भवति स्थिरनाम / इति गाथार्थः / / 140 // उक्तं स्थिरनाम, साम्प्रतमस्थिरनामाह-- (पारमा०) दन्तास्थिप्रभृतिस्थिराणां अङ्गावयवानां 'यस्य' कर्मण उदयान्निष्पत्तिः पुनः शरीरे जायते तत् स्थिरनाम भवति / इति गाथार्थः / / 140 // अस्थिरमाह-- जीहाभमुहाईणं, अंगावयवाण जस्स उदएणं / निप्पत्ती उ सरीरे, जायइ तं अथिरनामं तु // 141 // (पू०) व्याख्या-जिह्वाभ्र प्रभृतीनां भ्र जिह्व प्रतीते, आदिशब्दान्नेत्रकर्णादिपरिग्रहः, 'अङ्गाषयपानां' शरीरदेशानां 'यस्य' कर्मणः 'उदयेन' विपाकेन 'निष्पत्तिस्तु' निर्वृत्तिः पुनः 'शरीरे' देहे 'जायते' निष्पद्यते तदस्थिरनाम तु' तदस्थिरनामैव कर्म इति गाथार्थः // 141 / / उक्तमस्थिरनाम, साम्प्रतं शुभनामाह-- - (पारमा०) जिह्वाभ्र प्रभृतीनामगावयवानां 'यस्य' कर्मण उदयानिष्पत्तिः (पुनः) शरीरे जायते तत् 'अस्थिरनाम तु' तदस्थिरनामकमव / इति गाथार्थः // 141 // 1 "जायं" इत्यपि पाठः।