________________ साधारण-स्थिरा-ऽस्थिर-शुभा-ऽशुभनाम-स्वरूप फलादिवर्णनम् शुभमाह सिरमाईण सुहाणं अंगावयवाण जस्स उदएणं / निप्फत्ती उ सरीरे जायइ तं होइ सुभनामं // 142 // (पू०) व्याख्या-'शिरःप्रभृतीनां आदिशब्दाद्वक्षःस्थलादिपरिग्रहः, 'शुभानां प्रशस्तानां, अङ्गस्यावयवा अङ्गावयवाः, अङ्गशब्देन चात्र शरीरमुच्यते नोदरादि, अस्यामेव गाथायामादी शिरसोऽङ्गावयवत्वेनाभिधानात् तेषां 'यस्य' नामकर्मण उदयेन 'निष्पत्तिस्तु' नितिरेव 'शरीरे' देहे 'जायते' निष्पद्यते तद्भवति 'शुभनाम' शुभनामसंज्ञकं कर्म / इति गाथार्थः // 142 // उक्तं शुभनाम, अधुनाऽशुभनामाह-- (पारमा०) शिर आदिर्येषां ते शिरआदयो नाभेरुपर्यवयवास्तेषां शुभानामगावयवानां 'यस्य' कर्मण उदयान्निप्पत्तिः पुनः (शरीरे) जायते तत् शुभनाम भवति / शिरसा हि स्पृष्टस्तुष्यति इति गाथार्थः / / 142 // अशुभमाह-- पायाईअसुहाणं, अंगावयवाण जस्स उदएणं / निष्पत्ती उ शरीरे, जायइ तं असुभनामं तु // 143 // . (पू०) व्याख्या-पादावादिर्येषामवयवानां पादादिः, आदिशब्दात्पुतादिपरिग्रहः, तेषां "अशुभानां अशोभनानां 'अङ्गावयवानां' देहदेशानां यस्य' पुनः कर्मणः 'उदयेन' विपाकेन 'निष्पत्तिस्तु' निर्वृत्तिः तुशब्दः पुनःशब्दार्थः, 'शरीरे' देहे 'जायते' निष्पद्यते 'तदशुभनाम तु' अशुभनामैव / इति गाथार्थः / / 143 / / उक्तमशुभनाम, साम्प्रतं सुभगदुर्भगमाह-- (पारमा०) पादावादिर्येषां ते पादादयो नाभेरधोऽवयवाः, तेषामशुभानां 'यस्य' कर्मण उदयानिप्पत्तिः पुनः शरीरे जायते तदशुभनामैव / पादेन हि स्पृष्टो रुष्यति / ननु प्रणयप्रकुपितप्रणयिनीपादप्रहारेऽपि प्रणयिनस्तोष एवेति कथं न व्यभिचारः 1, उच्यते, तत्तोषस्य मोहनीयनिबन्धनत्वाद्वस्तुस्थितेश्चात्र विचार्यमाणत्वाददोषः / इति गाथार्थः // 143 // सम्प्रति सुभगदुर्भगनाम्नी आह--