________________ कर्मविपाकाख्ये प्रथमे कर्मग्रन्थे सूभगकम्मुदएणं, 'हवइ हु जीवो उ सव्वजणइट्ठो / 'दूहगकम्मुदए पुण, दुहओ सो 'सयललोयस्म // 144 // (पू०) व्याख्या-सुभगस्य भावः सौभाग्यं तस्य कर्मण उदयेन विपाकेन 'भवत्येव' जायत एव, हुशब्दस्यैवकारार्थत्वात् 'जीवस्तु' प्राणी सर्वजन इष्ट एव, तुशब्दस्यैवकारार्थत्वात् , अन्यथा सौभाग्याभावः / 'दुहगकम्मुदएणं' इति दौर्भाग्यकर्मोदयेन विपाकेन 'दुर्भगः' . नयनमनसोरुद्वेगकारी 'सकललोकस्य' सर्वप्राणिसमूहस्य / 'दुभगो सो सयललायस्स' इति पाठान्तरं वा / तत्रापि स एवार्थः / केवलं स दौर्भाग्ययुक्तस्य परामर्शः / इति गाथार्थः // 144 // उक्तं सुभगदुर्भगनाम, अधुना सुस्वरदुःस्वरनामोच्यते-- ___ (पारमा०) सुभगकर्मोदयाद्भवति निश्चितं जीवः, तुशब्दस्य विशेषणार्थत्वात् , अनुपकारकृदपि सर्वजनस्येष्टो मनःप्रियः / दुर्भगकर्मोदये पुनःशब्दस्य विशेषणार्थत्वात् , उपकारकुदपि 'दुःखदः' मनोनयनानामप्रियप्रतिमः स सकललोकस्य भवतीत्यत्रापि योज्यम् / यदाह"अणुवकरवि बहूणं, होइ पिओ तस्स सुभगनामुदओ / उवगारकारगोवि हुन रुचई दूभगस्सुदए // 1 // सुभगुदएवि हु कोई कंची आसज्ज दृभगो जइवि / जायह तदोसाओ, जहा अभव्वाण तित्थयरो // 2 // '' इति गाथार्थः // 144 // सुस्वरदुस्वरे आह सूसरकम्मुदएणं, सूसरसदो 'य होइ इह जीवो।' दूसरउदए 'विसरो, जपंतो होइ जणवेसो // 145 // (पू०)व्याख्या-सुस्वरं शोभनस्वरं तच्च तत्कर्म च सुस्वरकर्म तस्योदयेन विपाकेन 'सुस्वरशब्दस्तु" शोभनध्वनिरेव 'भवति' जायते 'इह' अस्मिन् लोके 'जीवः' प्राणी / दुःस्वरनाम्नः पुनरुदये विपाके 'विरसः' इतिविशेषेण गतो रसो माधुर्यलक्षणो यस्य स विरसः श्रुत्यसुखदः 'जल्पन्' वदन् 'भवति' जायते 'जनद्वेष्यः' लोकाप्रीत्युत्पादकः / इति गाथार्थः // 14 // उक्तं सुस्वरदुःस्वरनाम, साम्प्रतमादेयानादेयनामाह (पारमा०) सुस्वरकर्मोदयाद् द्वीन्द्रियादीनां शब्दः स्वरः शोभनः स्वरः सुस्वरः श्रोत्रप्रीतिहेतुः, एवंभृतश्च 'इह' संसारे जीवो भवति / दुःस्वरोदये विस्वरः खरभिन्नहीनदीनस्वरो जल्पन् 'जनदेष्यः' अप्रीतिपदं भवति / इति गाथार्थः // 14 // आदेयानादेये आह१“होइ" इत्यपि पाठः / 2 दुभगकम्मुदएणं दुभगो सो सव्वलोगस्स इत्यपि पाठः / व्याख्याकारेण तु "दुभगकम्मुदएणं दुब्मगओ सयल०" इति पाठानुसारेण व्याख्यातमस्ति / 3 “सव्वलोयस्स" इत्यपि पाठः, तथैव जे०।४'उ' इति व्याख्याकारः। "विरसो' इत्यपि पाठन्तदनुसारेण व्याख्याकारेण व्याख्यातमस्ति।