________________ सुभग-दुर्भग-सुस्वर-दुःस्वरा-ऽऽदेया-उनादेय-यशःकीय-ऽयशःकीर्ति-निर्माणनामस्वरूाफलादिवर्णनम् [ 77 आएजकम्म उदए, चिट्ठा जीवाण भासणं जं च / तं बहु मन्नइ लोओ, 'अबहुमयं इयरउदएणं // 146 // (पू०) व्याख्या-आदेयनाम्नः कर्मणः 'उदय' विपाके 'चेष्टा' शरीरव्यापारलक्षणा जीवाना 'भाषणं यच्च' जल्पनं यच्च 'तत्' सर्व 'बहु मन्यते' अन्तःप्रीतियुक्तस्तत्तथैव प्रतिपद्यते 'लोकः' जनः / अबहुमतं' अनभिप्रेतं चेष्टाजल्पादिकमितरस्य पुनरनादेयनाम्नः कर्मण उदयेन विपाकेन / इति गाथार्थः // 146 // उक्तमादेयानादेयनाम, साम्प्रतं यशःकीत्ययशःकीर्तिनामाह(पारमा०) आदेयकर्मण उदये 'चेष्टा' उच्छृङ्खलरूपा जीवानां या 'भाषणं' असमञ्जसप्रलपनं यच्च तद्बहुमन्यते लोकः इतरदनादेयं, तस्योदये चेष्टा हसितललितादिका भाषणं युक्तियुक्तस्यापि अबहुमतम् / इति गाथार्थः / यशःकीर्त्ययशःकीर्ती आह जस्सुदएणं जीवो, लहइ हु कित्तिं जसं च लोगम्मि / तं जसनामं कम्म, अजसुदए लहइ विवरीयं // 147 // (पू०) व्याख्या-'यस्य' कर्मणः 'उदयन' विपाकेन 'जीवः' प्राणी 'लभते तु' प्रामोत्येव कीर्तियशस्तु, एकदिग्गामिनी कीर्तिः, सर्वदिग्गामि यशः, अथवा-"दानपुण्यफला कीर्तिः, पराक्रम कृतं यशः" / अथवा एकमेवेदं नाम, यशसोपलक्षिता कीर्तिर्यशःकीर्तिः, कीर्तिशब्दस्य पूर्वनिपातः प्राकृतत्वात् , 'लोके' जने तद्यशोनामकर्म यशःकीर्तिकर्मेत्यर्थः / अयशःकीत्युदये पुनः प्राणी 'लभते' प्राप्नोति, 'विपरीतं' अयश कीर्तिमासादयति / इति गाथार्थः // 147 // उक्तं यशःकीर्त्ययशःकीर्तिनाम, अधुना निर्माणनामाह-- (पारमा०) 'यस्य' कर्मण उदयाजीवो लभते कीर्ति परलोकगतस्यापि श्लाघनीयतारूपी, यशश्च जीवतः श्लाघतारूपं लोके तद्यशःकीर्तिनाम / अथवा यशसा शौण्डीर्यक्रियानुष्ठानस्वाध्यायध्यानादिशोभनार्थालम्बनेन कीर्तनं संशब्दनं यशःकीर्तिः / 'अजसुदए' इति अयशः कीयुदये लभते 'विपरीत' अश्लाघनीयतारूपम् / इति गाथार्थः // 147|| निर्माणमाह-- देहंगावयवाणं, लिंगागिइ जाइ नियमणं जं च / तहिँ सुत्तहारसरिसो, निम्माणे होइ हु विवागो॥१४८॥ 1 नवमन्नइ इयरउदएणं इत्यपि पाठः / 2 "कित्तीजसं" इत्यपि पाठः।