________________ कर्मविपाकाख्ये प्रथमे कर्मग्रन्थे (पू०) व्याख्या-देहं शरीरं तस्याङ्गानि शिरःप्रभृतीनि देहाङ्गानि, देहाङ्गानामवयवाः कर्णनासिकादयस्तेषां 'यन्नियमन' यो नियमोऽवश्यम्भावो यस्य देहाङ्गस्य येऽवयवास्तैस्तत्र भवितव्यम् / निजाङ्गादीनां नियमनं यच्चेति, निजमात्मीयं, अङ्गसुदरप्रभृति, निजंच तदङ्गच निजाङ्ग, निजाङ्गमादिर्येषामङ्गानां तानि निजाङ्गादीनि, यञ्च तेषां नियमनम् / यस्य मनुष्यशरीरादेयानि शिरः प्रभृत्यङ्गानि तैस्तत्रैव भवितव्यम् न पुनर्मनुष्यशरीराङ्गावयवैदेवादिशरीरादिषु भवितव्यम् / यस्य वा मनुष्यादेर्यच्छरीरं तस्य येऽवयवास्ते तस्मिन्नेव शरीरे भवन्यवयवाः / येन शरीराङ्गादिना योऽवयवो जन्यः स तदेवाङ्गजनयति, नान्यदिति / अयमत्र भावार्थः-देहाङ्गावयवानां इत्यनेनावयवनियम उक्तः, यस्य शिरःप्रभृत्यङ्गस्य योऽवयवो नासिकाकर्णादिः, तेनावयवेन तस्मिन्नेव शिरःप्रभृत्यङ्गे भवितव्यम् / तस्मिन्नप्यङ्गे भवता नासिकादिना नासिकादिस्थान एव भवितव्यम् / निजाङ्गादीनां इत्यनेन 'त्वङ्गनियम उक्तः, यस्य देहस्य पुरूषादेः संबन्धिनो यच्छिरः-प्रभृत्यङ्ग तेनाङ्गेन तत्रैव देहे भवितव्यम् , नान्यस्मिन , अथवा यस्याङ्गस्य यो निजोऽवयवः स तेनैव शिरःप्रभृतिनोत्पादयितव्यः, नान्येनोरःप्रभृतिना / अथवाऽन्यथा व्याख्यायते-देहाङ्गावयवानां निजाङ्गादिपु नियमनं यत् , चकाराद्विधानं च, इत्यत्र सप्तम्यर्थे षष्ठी / तेनायमर्थः-देहाङ्गावयवैनासिकादिभिनिजाङ्गादिष्वेव शिरःप्रभृतिषु भवितव्यं स्वस्थान एवेति / कस्यायं विपाकः ? इत्याह-निर्माणनाम्न एवायं 'विपाकः' उदयः 'भवति' जायते हुशब्दस्यावधारणार्थत्वात / किंभूतोऽसौ विपाकः ? इत्याह-'तहिँ सुत्तहारसरिसो' 'तत्र' निर्माणे यो विपाकः स सूत्रधारसदृशः सूत्रधारो-विज्ञानिकः, तेन तुल्यः / यथा सूत्रधारो देवकुलादौ क्रियमाणे स्तम्भादावङ्गे भद्रकोणरह प्रतिहारकादौ च यः कुम्भिकाकलशकादिरवयवो यस्मिन्नेव स्थाने बुध्यते (युज्यते) कतु तस्मिन्नेव प्रदेशे विज्ञानिकैः कारयत्यात्मव्यापारेण / इति गाथार्थः // 148|| उक्तं निर्माणनाम, अधुना तीर्थकरनामाह-- (पारमा०) देहं शरीरं, अङ्गानि शिरउरःप्रभृतीनि, अवयवा अगुल्यादय उपाङ्गादिरूपाः, तेषां नियमनम् / यथा मनुष्यस्य द्वौ हस्तौ द्वौ पादौ इत्यादिनियमः / 'लिङ्गाकृतिजातिनियमन' लिङ्गाकृत्योर्जाती जन्मनि नियमनं यच्च / यथा पुरुषस्य श्मश्रुप्रभृतिलिङ्ग, अधृष्यत्वादिका चाकृतिः / स्त्रियश्च स्तनादिकं चिह्न, अभिगम्यत्वादिका चाकृतिः / तत्र सूत्रधारतुल्यो निर्माणस्य भवति निश्चितं विपाकः / यथा सूत्रधारः शिलाकुट्टकैः कृतानि खरशिलादीनि देवकुलाङ्गानि यथास्थानं निवेशयति / तथा निर्माणमपि अङ्गोपाङ्गनाम्ना निर्मितानि शरीरागादीनि / इति गाथार्थः // 14 // तीर्थकरनामाह१ त्वषयवनियम जे० / 2 "प्रतिरहकादौ जे० /