________________ निर्माण-तीर्थङ्करनाम-गोत्रस्वरूपफलादिवर्णनम् उदए जस्म सरासुर-नरवइनिवहेहिँ पहओ होइ। तं तित्थयरं नाम, तस्म विवागो उ केवलियो / 149 // (पू०) व्याख्या-'उदय' विपाके 'यस्य' कर्मणः सुरा ज्योतिष्कवैमानिकाः, असुरा भवनवासिनः, नरपतयो राजानः, सुराश्चासुराश्च नरपतयश्च सुरासुरनरपतयः तेषां निवहाः संघाताः तैः, 'पूजित:' अर्चितः 'भवति, जायते तदेवंभूतं 'तीर्थकरं' तीर्थकरणशीलं, ताच्छीलि कष्टः, 'नाम' नामकर्म, 'तस्य' तीर्थकरकर्मणो 'विपाकश्च' अनुभवश्व तात्त्विकः केवलिन एव तीर्थकरस्य नाकेवलिनः तस्य समस्तैः पूजनासंभवात् / इति गाथार्थः // 146 // / व्याख्यातं तीर्थकरनाम, तद्वयाख्यानात्सप्रपञ्चं नामकर्मापि व्याख्यातम् / साम्प्रतं सूत्रकार एव गोत्रप्रतिपादनायाह (पारमा०) 'उदये' विपाकानुभवे 'यस्य' कर्मणः, सुरा वैमानिकादयः, असुरा भवनपतिविशेषाः, नरा मनुष्यास्तेषां पतयः सौधर्मेन्द्रचमरसम्रााजादयः, तेषां निवहैः पूजितो भवति तत्तीर्थकरनाम, तस्य विपाका पुनः केवलिनः / तथाहि-भगवन्तस्तीर्थकरास्तीर्थकरनामकर्मोदयादेवादिभिरष्टमहापातिहार्यादिविरचनतः पूज्यन्ते, जघन्यतोऽपि कोटिसंख्यैः सेव्यन्ते च / गृहस्थाद्यवस्थायामपि जन्ममहादौ पूज्यन्त एव परं तस्यासन्ततत्वात् केवलोत्पादे च निरन्तरत्वात्तस्य विपाकः केवलिन इत्युक्तम् / इति गाथार्थः / / 149 // अधुना नाम निगमयन् गोत्रप्रस्तावनामाह-- . भणियं नामं कम्मं अहुणा गोयतु सत्तमं भणिमो। तंपि कुलालसमाणं, दुविहं जह होइ तह भणिमो // 150 // . (पू०) व्याख्या- भणितं' प्रतिपादितं नामकर्म सविस्तरम् / 'अधुना' साम्प्रतं पुनर्गोत्रं तु, तुशब्दः पुनःशब्दार्थ एवशब्दार्थो वा / यदा एवकारार्थस्तदा गोत्रमेव सप्तमं संख्यया 'भणिमो' प्रतिपादयामः / पुनःशब्दार्थ उक्त एव / तदपि कुलालसमानं, तच्छब्दो गोत्रपरामर्शकः, अपिशब्दः संभावने / किं संभावयति ? तदेतद्गोत्रं कुम्भकारतुल्यं वर्तते / किंभूतं तत् ? 'विविधं द्विप्रकारं 'यथा' येन प्रकारेण 'भवति' जायते 'तथा' तेन प्रकारेण 'भणाम:' प्रतिपादयामः / इति गाथार्थः // 150 // अभिहितगोत्री विध्ये आधभेदे दृष्टान्तमाह-- 1 "पूइओ लोए" इत्यपि पाठः / 2 ०को-ऽचू जे० / 3 "त" इत्यपि पाठः।