________________ 80] . कर्मविपाकाख्ये प्रथमे कमपन्थे ___ (पारमा०)-'भणितं' अशेषविशेषाख्यानतः प्रतिपादितं नामकर्म षष्ठम् / 'अधुना तु' सम्प्रति पुनः 'गोत्रं' सप्तमं कर्म भणामः / तदपि गोत्रं कुलालममानं सत् द्विविधं शुभाशुभकरणतो यथा भवति तथा भणामः / इति गाथार्थः / / 150 // सम्प्रति कुलालदृष्टान्तं स्पष्टमाचष्टे जइ इत्थ कुभकारो, पुढवीए कुणइ परिसं रूवं / जं लोयाओ पूयं पावइ 'इह पुण्णकलसाई // 151 // (पू०) व्याख्या-'यथा' येन प्रकारेण 'अत्र' अस्मिन लोके 'कुम्भकार:' घटकारः 'पृथिव्यां मृत्तिकायां 'करोति' विधत्ते ईदृशं रूपमतिशयवत् / 'यद्' रूपं 'लोकात् ' जनात् पूजां पुष्पचन्दनदध्यक्षतादिभिः 'प्रामोति' आसादयति 'इह' 'अस्मिँल्लोके' किं तत् ? इत्याह- . पूर्णकलशादि, आदिशब्दादर्घपात्रादि / इति गाथार्थः / / 15 / / उक्त उच्चैगोत्रदृष्टान्तः, अधुना नीचे!त्रदृष्टान्तमाह-- (पारमा०) यथाऽत्र कुम्भकारः 'पृथिव्याः' मृत्तिकाया ईदृशं रूपं करोति, यत्पूर्णकलशादि मसूणत्वादिगुणरहितमपि लोकात् पूजा प्रामोति / लोको हि पूर्णकलशाद्यभिमुखमायान्तमालोक्य शोभनः शकुन इति स्तुवन्नक्षतादिना पूजयतीति / / 151 // भुभुलमाई अन्नं सो चिय पुढवीएँ कुणइ रूवं तु / जं लोयाओ निंदं पावइ अकएवि मजम्मि // 152 // (पू०) व्याख्या-मुम्भुलो मद्यस्थानं, आदिशब्दात्कोशकादिपरिग्रहः, मकारोऽलाक्षणिकः प्राकृतत्वात् / भुम्भुला धन्यं रूपं स एव कुम्भकारः 'पृथिव्यां' मृत्तिकायां करोत्यंव' विधत्त एव, 'रूपं तु' उक्तलक्षणम् / यत् 'लोकात्' जनात् 'निन्दा' जुगुप्सां प्राप्नोति' आसादयति 'अकृतेऽपि' अस्थापितेऽपि 'मये' आसवे, आस्तां तावत्कृते, कृते तु सुरां निन्दा प्रामोति / इति गाथार्थः / / 152 // उक्तो दृष्टान्तः, अधुना दार्शन्तिकमाह-- (पारमा०) 'भुम्भुलं' मद्यभाजनं, 'अन्यत्' पूर्णकलशादिव्यतिरिक्तं स एव कुम्भकारः पृथिव्या रूपं करोति / यन्मसृणत्वादिगुणवदपि लोकान्निन्दां प्राप्नोति, 'अकृतेऽपि' अस्थापितेऽपि मद्ये / तथाहि-शिष्टजनो भुम्भुलादिकं तत्कालनिष्पन्नमपि इतरभाण्डालाभेऽपि महत्यपि प्रयोजने निन्द्यत्वान्न गृह्णात्येव / इति गाथाद्वयार्थः // 152 / / दान्तिकेन योजयति१ "जह" इत्यपि पाठः / 2 ०धन्यत् रूपं जे।