________________ - खगनिद्वयम्बरूपफलादि-बसदशक-स्थावर दशकप्रकृतिनामादिवर्णनम् उक्ता द्विधाऽपि विहायोगतिः साम्प्रतं त्रसादिदशकसंज्ञामाह (पारमा०) यस्य कर्मण उदयाजीवो, मनस इष्टा मनइष्टा, न मनइष्टा अमनइष्टा अशुभेत्यर्थः, तया गत्या गच्छति माऽशुभा विहायोगतिः, सा तृष्ट्रादीनां आदिशब्दात्खरादीनां भवेत् / इति गाथार्थः // 129 // सम्प्रति त्रसादिदशकमाह-- तमवायरपजत्तं. पत्तेयथिरं सुभं च सुभगं च / सूसरआइजजसं, तसाइदसगं इमं होइ // 130 // (पू०) व्याख्या-वसनाम, नामशब्दस्य प्रत्येकं संबन्धः, बादरं पर्याप्तं प्रत्येकं स्थिर शुभं च मुभगं च सुस्वरआदेययशः / त्रसादिदशकं इदं' उक्तलक्षणं "भवति' ज्ञातव्यम् / इति गाथार्थः // 130 // त्रसादिदशक एवापान्तरसंज्ञाद्वयमाह-- (पारमा०) वसं 1 बादरं 2 पर्याप्तं 3 प्रत्येकं 4 स्थिरं 5 शुभं च 6 सुभगं च 7 मुस्वरं 8 आदेयं 9 'जसं' इति यश-कीर्तिः 10 / सादिदशकमिदं नामग्रहोपदर्शितं भवति / इति गाथार्थः / / 130 // - सादिदशकस्यैव संज्ञाद्वयविभागमाह-- . आइम्मि तसचउक्क, थिराइछक्कतु उवरिमं होइ। थावरदसगं अहुणा, 'थावरसुहुमं अपजत्तं // 131 // होइ तहा साहारं, अथिरं असुभं च दूभगं चेव / दूसरणाइज्जेहिं य अजसेहिं य बीयदसगं तु॥१३२॥ .. (पू०) व्याख्या-'आदौ' प्रथमं त्रसचतुष्कं भवति ज्ञातव्यम् / त्रसवादरपर्याप्तप्रत्येकनामानि / स्थिरादिषट्कं तु स्थिरशुभसुभगसुस्वरआदेययशांसि, पुनरुपरिमं षट्कं स्थिरादिषट्कसंज्ञं भवति विज्ञेयम् / उक्तं त्रसादिदशकं संज्ञात्रयं, स्थावरदशकसंज्ञाचतुष्कमधुनोच्यते-इति वाक्यशेषः / स्थावरसूक्ष्मं च साधारणमिति स्थावरनाम सूक्ष्मनाम च साधारणनाम स्थावरदशकान्तवर्ति विज्ञेयम् / इति गाथार्थः // 131 // तथा भवत्यपर्याप्तं नाम 'अस्थिरं' अस्थिरनाम 'अशुभं च' अशुभनाम 'दुर्भगं चैव' दुर्भगनामैव, दुःस्वरानादेयनामभ्यामयशःकीर्त्या च सह .1 "थावरसुहुमं च साहारं / / 131 तह होइ अपज्जत्तं" इत्यपि पाठस्तदनुसारेण व्याख्याकार व्यारख्यातम् , परमेनं पाठं परमानन्दसूरयस्तु अपपाठतया व्याख्यान्ति / /