________________ 68 कर्मविपाकाख्ये प्रथमे कर्मग्रन्थे (पारमा०) यस्योदयाजीवः 'अणु सिण' इति लुप्मविभक्तित्वादनुष्णं देहेनोद्योतं करोति / यदाह अयमेव शतकबृहच्चूर्णी-"अणुसिणो पगासो जस्सोदयाओ भवइ तं उज्जोयनाम' इति / तदुद्द्योतनाम जानीहि खद्योतादीनाम् , आदिशब्दाचन्द्र ग्रहनक्षत्ररत्नादीनां परिग्रहः / इति गाथार्थः // 127 // विहायोगतिमाह जस्सुदएणं जीवो, वर'वसहगईऍ गच्छइ गईए। *सा सुहिया विहगगई, हंसाईणं भवे सा उ // 128 // (पू०) व्याख्या-'यस्याः' शुभविहायोगतेः 'उदयेन' विपाकेन 'जीवः' सामान्येन प्राणी 'गच्छति' याति गत्या / किंविशिष्टया ? इत्याह-वरवृषभगत्या' वृषभोबलीवदः, वरः= प्रधानः, वरश्चासौ वृषभश्च वरवृषभः तस्य गतिस्तया, वरवृषभस्येव गतिः पुरुषस्य यत्र इत्यभिप्रायः / सा च 'शुभा' प्रशस्ता शुभैव, चशब्दस्यैवकारार्थत्वात् , विहायोगतिरिति वक्तव्या / 'विहाय()गतिनामकर्म' इति पाठः प्राकृत त्वाद्व(द्ध)कारस्याकारलोपे ओलोपे च / सा च केषां भवति ? इत्याह-हंसादीनां, आदिशब्दान्मतङ्गजादिपरिग्रहः, 'भवेत्' जायेत / तुशब्दस्यवकारार्थत्वात् / इति गाथार्थः // 128 // उक्ता प्रशस्ता गतिः, अप्रशस्तगतिमाह (पारमा०) विहायसाऽऽकाशेन गतिविहायोगतिः। ननु विहायसः सर्वगतत्वात्तदन्यत्र गतिसंभवाभावाद्विहायोविशेषणमनर्थकम् , नैवम् , विहायोग्रहणं नाम्नः प्रथमप्रकृतिगतितोऽस्या विशेषणार्थम् / ततो यस्य कर्मण उदयाजीवो वरवृषभगत्या गच्छति सा शुभैव शुभिका विहायोगतिः / सा तु हंसादीनां आदिशब्दाद्गजवृषभादीनां भवेत् / इति गाथार्थः // 12 // अशुभविहायोगतिमाह जस्सुदएणं जीवो, अमणिट्ठाए उ गच्छइ गईए। __सा असुभा विहगगई, उट्टाईणं भवे सा उ // 129 // (पू०) व्याख्या-'यस्य' कर्मण 'उदयेन' विपाकेन 'जीवः' प्राणी 'अमणिहाए उ' अमनोज्ञयैव 'गच्छति' याति 'गत्या' पादविहरणादिलक्षणया, सा 'अशुभा' अशोभना विहायोगतिर्नामकर्म, सा च केषां भवति ? इत्याह-उष्ट्रादीनां, आदिशब्दादासभादीनां 'भवेत्' जायेत / 'सा तु' सा पुनरुष्ट्रादीनामेव, नान्येषाम् / इति गाथार्थः / १०वसभ०" इत्यपि पाठः / 2 “सा सुहया' इत्यपि पाठः / “सा य सुहा" इति व्याख्याकाराः / 3 “विहगगति 0" जे०।४ ०त्वात् हस्याकारलोपे उलोपे च / सा जे० / 5 "य" इत्यपि पाठः / /