________________ उच्छ्वासा-ऽऽतपो-द्योतनामस्वरूपफलादिवर्णनम् ननु यथा रवेः संतापकत्वेनातपनामोदयः प्रतिपाद्यते तथा तेजःकायिकस्यापि संतापकत्वेनातपनामोदयः स्यात् ? 'इत्याशङ्कय परिहारार्थमाह (पारमा०) यस्य कर्मण उदयाजीवस्य शरीरं तापवदुष्णप्रकाशकारि भवति स आतपस्य विपाकः / यथा 'रविधिम्बे' आदित्यमण्डले पृथ्वीकायिकेषु तथा जानीहि, अन्यत्र तु न भवति / यदयमेवाह शतकबृहच्चूर्णी-"आयवनामं आइचमंडलपुढ विकाइएसु चेव" / इति गाथार्थः॥१२५॥ आतपनामोदयश्च तेजःकायिकेषु न भवति इत्याह 'न भवइ तेयसरीरे, जेण उ तेयस्म उसिणफासस्स। .होइ हु उदओ नियमा. तह लोहियवण्णनामस्स // 126 // (पू०) व्याख्या-'कि नवि' इति पोल्लिकया किमिति कृत्वा 'तेजःशरीरे' तेजस्कायिकदेहे आतपनामोदयो नोच्यते ?, इत्याह-'भण्यते' उच्यते 'तेजस' अग्ने उष्णस्पर्शस्यैव' अशीतस्पर्शस्यैव स्पर्शनाम्नः कर्मण उदयो 'भवति' संपद्यते, हुशब्दस्यैवकारार्थत्वात् 'उदयः' विपाकः 'नियमातू' अवश्यंतया न आतपनाम्नः / तथेति समुच्चयार्थः / न केवलमुष्णस्पर्शनाम्न उदयः 'लोहितवर्णनाम्नश्च' रक्तवर्णनाम्नश्चोदयः / इति गाथार्थः // 126 // उक्तमातपनाम, साम्प्रतमुद्योतनामाह (पारमा०) न भवति तेजःशरीरे आतपनामकर्मोदय इति संबन्धनीयम् / कथं तर्हि तेषणात्वम् ? इति चेदत्राह-'येन' हेतुना तेजसो नियमादुष्णस्पर्शस्योदय इति, तर्हि प्रकाशकत्वं कथम् ? इत्याह-तथा लोहितवर्णनाम्नश्चोदयो भवति उष्णस्पर्शादुष्णत्वम् , उत्कटलोहितवर्णनामोदयाच प्रकाशकत्वम् / इति गाथार्थः॥१२६॥ उद्द्योतनामाह जस्सुदएणं जीवो, अणुसिणदेहेण कुणइ उज्जोयं। तं उज्जोयं नामं, जाणसु खजोयमाईणं // 127 // (पू०) व्याख्या-'यस्य' कर्मणः 'उदयेन' विपाकेन 'जीवः' प्राणी 'अनुष्णदेहेन' उष्णरहितशरीरेण 'करोति' विधत्ते 'उद्योतं' प्रकाशं तत्कर्म उद्योतनामकर्म 'जानोहि' अवबुध्यस्व तदुद्द्योतनाम / यथा खद्योतादीनां, आदिशब्दादौषध्यादीनामुयोतनाम / इति गाथार्थः // 127 // उक्तमुद्द्योतनाम, साम्प्रतं शुभाशुभेदाद् विहायोगतिमभिधातुकाम आधभेदमाह१ इत्याशङ्कापरि० जे० / 2 "किन्न हु” इत्यपि पाठः, व्याख्याकारेण तु "किं नवि तेयसरीरे भण्णइ तेयस्स" इति पाठानुसारेण व्याख्यातमस्ति 3 बोलिकया जे० 4 "इत्यावेदयन्नाह" इत्यपि /