________________ कर्मविपाकाख्ये प्रथमे कर्मग्रन्थे (पू०) व्याख्या-(एवं) उक्तनरकानुपूर्वीन्यायेन तिर्यङ्मनुजदेवान् प्रतीत्यानुपूर्व्या उदयो ज्ञातव्यः, न केवलं नरके, 'तेष्वपि' तिर्यङ्मनुजदेवेष्वपि 'वक्रण' 'कौटिल्येन 'गच्छमाणस्स' गच्छतः सतः 'तासामानुपूर्वीणां' तिर्यङ्मनुजदेवानुपूर्वीणां 'तत्र' तिर्यङ्मनुजदेवगतिषु वक्ररूपासु 'उदयः' विपाकः / 'अन्यत्रः' वक्रादन्यत्र 'नास्ति' न विद्यते / इति गाथार्थः // 123 // . उक्तमानुपूर्वीनाम, साम्प्रतमुच्छ्वासनामाह (पारमा०) 'एवं तिरिमणुदेवे' इति तिर्यङ्मनुष्यदेवानामेवं नरकानुपूर्वीवदानुपूयाँ वाच्याः, न केवलं नरके, 'तेष्वपि' तिर्यङ्मनुष्यदेवेष्वपि वक्रेण गच्छतः, 'तेषामानुपूर्वीणामुदयः' तिर्यग्मनुष्यदेवानुपूर्वीणामुदयः 'तत्र' वक्रगतौ / 'अन्यत्र' ऋजुगतौ नास्ति / इति गाथार्थः / / 123 // उच्छ्वासनामाह जस्सुदएणं जीवे, निष्फत्ती होइ आणपाणूणं / तं ऊसासं नाम, तस्स विवागो सरीरम्मि // 124 // (पू०) व्याख्या-'यस्य' कर्मणः 'उदयेन' विपाकेन 'जीवे' जीवस्य 'निष्पत्तिः' नित्तिर्भवति 'आनप्राणयोः' उच्छ्वासनिःश्वासयोः, तदुच्छ्वासनाम, उच्यत इति क्रिया। 'तस्य' चोच्छ्वासनाम्नः कर्मणो 'विपाकः' उदयः 'शरोरे' औदारिकादिलक्षणे / इति गाथार्थः // 124 // उक्तमुच्छ्वासनाम, अधुनाऽऽतपनामाह (पारमा०) यस्य कर्मण उदयेन जीवस्य 'आनपाननिष्पत्तिः' उच्छवासनिःश्वासलब्धिरुपजायते तदुच्छ्वासनाम / तस्य विपाकः शरीर इति / अयमभिप्रायः-जीवत्रिपाकित्वेऽप्युच्छ्वासनाम्नो विशिष्ट एव शरीरे उदयः, नापान्तरालगत्यादौ / इति गाथार्थः // 124 // आतपनामाह-- जस्सुदएणं जीवे, होइ सरीरं तु ताविलं इत्थ / सो आयवे विवागो, जह रविबिंबे तहा जाण // 125 // (पू०) व्याख्या-'यस्य' कर्मणः 'उदयेन' विपाकेन 'जोवे' जीवस्य, षष्ठयर्थे सप्तमी सर्वत्र द्रष्टव्या, अकारान्तं वा पदं प्राकृतत्वादेकारान्तम् , 'भवति' जायते 'शरीरं' प्रतीतं, तुशब्दस्यैवकारार्थत्वात् , 'ताविलमेव' तापयुक्तमेव 'अत्र' अस्मिन् लोके, स आपतनाम्नः कर्मणः 'विपाक:' उदयः, क इव 1 इत्याह-यथा रविबिम्बे आतपनामोदयस्तथा विवक्षितशंरीरे 'जानीहि' अवबुध्यस्व / इति गाथार्थः / / 125 // 1 कुटिलेन गच्छमानस्य जे०