________________ उपघात-पराघाता-ऽऽनुपूर्वीनामस्वरूपफलादिवर्णनम् [65 (पारमा०) त्वग्विपदन्तविपाद्यगावयवश्च यः पुनरन्येषां जीवानां घातं करोति, चकारादधृप्यमोजो वाक्सोष्ठवं वा नृपसभादिगतस्य सभ्यादीनामपि क्षोभकृत् , प्रतिपक्षप्रतिभाप्रतिघातं च यत्करोति स पराघातस्य विपाकः / इति गाथार्थः / / 120 // द्वित्रिचतुःसामयिकेन विग्रहेण भवान्तरोत्पत्तिस्थानं गच्छतो जीवस्यानुश्रेणिगमननिमिनमानुपूर्वीनामाह नारयतिरियनरामर-भवेसु जंतस्स अंतरगईए। अणुपुवीए उदओ, सा चउहा 'सुणसु जह होइ // 121 // (पू०) व्याख्या-'नारकतिर्यनरामरभवेषु' प्रतीतेषु 'जंतस्स' गच्छतः सतः 'अन्तरगतो' अपान्तरालगतौ 'आनुपूर्व्याः' नामकर्मविशेषस्य 'उदयः' विपाकः / सा चानुपूर्वी कियत्प्रकाराः भवति ? इत्येतदाह-'चतुर्डा' चतुर्भेदा शृणुत' आकर्णयत 'यथा' येन प्रकारेण 'भवति' जायते / इति गाथार्थः / / 121 / / नरकानुपूर्व्या विषयमाह (पारमा०) नारकतिर्यङ्नरामरभवेषु गच्छतो जीवस्य 'अन्तरगत्या' अपान्तरालगत्या वक्रगमनरूपयाऽऽनुपूर्व्या 'उदयः सा चतुर्दा शृणु यथा भवति / इति गाथार्थः // 121 // नरयाउअस्स उदए नरए वक्केण गच्छमाणस्स / नरयाणुपुब्बियाए. तहि उदओ अन्नहिं नत्थि // 122 // (पू०) व्याख्या-'नरकायुषः' नरकेऽवस्थितिकारकस्य 'उदये' प्रादुर्भावे 'नरके' प्रतीते 'वक्रण' कुटिलेन 'गच्छमाणस्स' इति गच्छतः सतः 'नरकानुपूाः ' नरकप्रापणे रज्जुकल्पाया वृषभस्येवाभिमतदेशनयने 'उदयः' अनुभवः 'तत्र' वक्रे / 'अन्यत्र' ऋजुगतौ 'नास्ति' न विद्यते / इति गाथार्थः // 122 // उक्तो नरकानुपूर्वीविषयः, अधुना तिर्यगाद्यानुपूर्वीविषयमाह. (पारमा०) नरकायुष उदये 'वक्रेण' कूर्परलाङ्गलगोमूत्रिकाकाररूपेण 'यथाक्रम' द्वित्रिचतुःसमयप्रमाणेन नरके गच्छतो नरकानुपूर्यास्तत्रोदयः / 'अन्यत्र' ऋजुगतौ नास्ति / इति गाथार्थः // 122 // एवं तिरिमणुदेवेतेसुवि वक्केण गच्छमाणस्स / तेसिमणुपुब्बियाणं, 'तहिँ उदओ अन्नहिं नत्थि // 123 // .1 "सुणह" इत्यपि पाठस्तत्पाठानुगन्तारा व्याख्याकाराः। 2 ति, अत आह जे० / 3-4 "उदओ तहि" इत्यपि पाठः।