________________ 64 कर्मविपाकाख्ये प्रथमे कर्मग्रन्थे हुशब्दस्यैवकारार्थत्वात् , भवत्येवागुरुलघुकं शरीरम् / केन ? इत्याह-'अगुरुलघुनाम्नः' कर्मणः 'उदयेन' अनुभवेन / इति गाथार्थः // 11 // उक्तमगुरुलघुनाम, साम्प्रतमुपघातनामाह (पारमा०) आत्मापेक्षया सर्वजीवानां देहं न गुरुकं भवति, नापि लघुकं भवति, उपलक्षणत्वान्नापि गुरुलघुकं, किन्तु अगुरुलघुकं भवति / अन्यापेक्षया तु गुरुकं लघुकं गुरुलघुकं वा भवति / यदाह-"अन्नन्नाविवाए तिन्निवि संभवंति" इति अगुरुलघुनाम्न उदयात् / इति गाथार्थः // 118|| उपधातनामाह-- अंगावयवी पडिजिब्भिया'इ जो अप्पणो उवग्घायं। कुणइ हु देहम्मि ठिओ सो उवघायस्स उ विवागो॥११९॥ (पू०) व्याख्या-अङ्गं शिरःप्रभृति, तस्यावयवो नासिकादि प्रतिजिबिका च / जिह्वाया उपरि लध्वी जिह्वा प्रतिजिबिका / योऽवयवः 'आत्मनस्तु' शरीरस्यैव 'उपघातं' विनाशं करोत्येव, हुशब्दस्यैवकारार्थत्वात् / 'देहे स्थितः' 'शरीरावस्थितः स उपघातनाम्न एव कर्मणो 'विपाकः' अनुभवः, तुशब्दस्यैवकारार्थत्वात् / इति गाथार्थः // 119 // व्याख्यातमुपघातनाम, अधुना पराघातनामाह-- (पारमा०) यः प्रतिजिह्वागलवृन्दाद्यगावयवो 'देहे स्थितः' इति शरीरान्तः पीडाकारित्वेन स्थित आत्मन उपघातं करोति स उपघातस्य विपाक उपघातनामकर्मोदयात् स उपघातकारीति भावः / इति गाथार्थः / / 11 / / पराघातमाह-- तयविसदंतविसाई, अंगावयवो 'य जो उ अन्नेमि / जीवाण कुणइ घायं, सो परघायस्स उ विवागो // 120 // (पू०) व्याख्या-त्वक् 'शरीरांशो विषं यस्मिन्नगावयवे स त्वग्विषः, दन्ता विषं यस्यावयवस्यासौ दन्तविषः, त्वग्विषश्च दन्तविषश्च त्वग्विषदन्तविषौ तौ आदिर्यस्यावयवस्य स त्वग्विपदन्तविषादिः, आदिशब्दान्नखविषादिपरिग्रहः / अङ्गस्यावयवोऽङ्गावयवः, 'तु' पुनः 'यस्त' य एव 'अन्येषां' आत्मव्यतिरिक्तानां 'जीवानां' प्राणिनां 'करोति' विधत्ते 'विघातं' विनाशं सः 'परघातनाम्न एव' कर्मणः 'विपाक:' अनुभवः / इति गाथाः // 120 / / उक्तं पराघातनाम, साम्प्रतमानुपूर्व्या विषयमाह 1 "०य जो अत्तणो उबघायं" इत्यपि पाठः। २.शरीरे अव० जे० 3 'उ' इत्यपि पाठस्तदनुसारेण व्याख्याकारैर्व्याख्यातम // 4 शरीरं सविषं यः जे।