________________ गन्ध-रस-स्पर्शा-ऽगुरुलघुनामस्वरूपफलादि र्णनम् यायित्वात् केवलस्यानुपयोगाच्च पृथगुपादानं न कृतम् / इति गाथार्थः // 116 // स्पर्शनाम प्राह-- गुरुलहुमि उकढिणावि य, निद्धा लुक्खा य होंति सीउण्हा। जियदेहाणं फासा, उदएणं फासनामस्स // 117 // ' (पू०) व्याख्या-गुरुश्च लघुश्च मृदुश्च कठिनश्च गुरुलघुमृदुकठिनाः, तेऽपि च, अपिशब्दः समुच्चये 'च.' स्वगतानेकभेदसंसूचनार्थः स्निग्धा रूक्षाश्च भवन्तीति प्रत्येकमभिसंबध्यते / शीताश्च उष्णाश्च शीतोष्णाः' 'जोवदेहानां' प्राणिशरीराणां 'स्पर्शाः' स्पर्शनेन्द्रियग्राह्या जायन्ते 'उदयेन' विपाकेन 'स्पर्शनाम्नः' कर्मणः / तत्र गुरुर्महान् वज्रसीसकादिवत् / लघु अल्पतरं शाल्मलीतूलवत् / मृदुः सुकुमारः पट्टस्पर्शवत् / कठिनो निर्वरः अन्धपाषाणवत् / स्निग्धः सस्नेही घृतपूरमिन्द्रिकापत्रयोरिव / रूक्षः स्नेहरहितः सुधावत् / शीतः प्रतीत उदकस्येव / उष्णस्तद्विपरीतोऽग्नरिव / स्पर्शशब्दः सर्वत्र संबन्धनीयः / इति गाथार्थः // 117 // उक्तं स्पर्शनाम, अगुरुलघुनामाह-- (पारमा०) तत्र गुरुलध्वादयः प्रायः स्पर्शत्वेन जने न प्रसिद्धा इति तत्स्वरूपनिरूपणा क्रियते / तत्र यतः स्पर्शाद्वस्तूनामधोगमनक्रिया भवति स स्पों गुरुः, यदाह-'अधोगते. गुरु' 1 / यतो वस्तूनां प्रायः तिर्यगूज़ च गमनं स स्पर्शो लघुः, यदाह-"तिर्यगूर्ध्वगते. लघुः' 2 / यतो वस्तूनां नमनक्रिया स स्पर्शो मृदुः, यदाह-'सन्नतेम॒दुः 3' / यतो वस्तूनां नमनक्रियाऽभावः स स्पर्शः कठिनः, यदाह-"प्रायोऽनमनस्य हेतुः कठिन: 4 / " चिकणत्वपरिणामः स्निग्धः 5 / अचिक्कणत्वपरिणामस्तु रूक्षः 6, यदाह-"चिक्कणत्वाचिकणत्वे स्निग्धरूक्षौ 5-6 / " यतो वस्तूनां काठिन्यापाको भवतः स स्पर्शः शीतः, यदाह-"काठि. न्यापाकयोःशीतः,७।" यतो वस्तूनां मार्दवविक्लित्ती भवतः स स्पर्श उष्णः, यदाह-मादवपाकयोरुष्णः 8 / इत्यष्टावपि स्पर्शा जीवदेहानां स्पर्शनाम्नोऽष्टविधस्योदयाद्भवन्ति इति गाथार्थः // 117 // अगुरुलघुनामाह___ गरुयं न होइ देहं, न य लहुयं होइ सव्वजीवाणं / होइ हु अगुरुयलहुयं, अगुरुल हुयनामउदएणं // 118 // (पू०)व्याख्या-'गुरुक' भारयुक्तं न भवति' शिंशपादिसारवत् न जायते 'देह' शरीरम् / 'नच' नैव लघुरेव लघुकमेरण्डकाष्ठवद् भवति 'सर्पजीवानां सर्वप्राणिनां देहमिति वर्तते, 1 जियदेहानां जे० / 2 घृतपूरामण्डिकाप० जे०।