________________ 62] कर्मविपाकाख्ये प्रथमे कर्मग्रन्थे (पू०) व्याख्या-कृष्णा नौला लोहिता हारिद्रा तथा भवन्ति शुक्लाश्च जीवदेहाना' प्राणिशरीराणां 'वर्णाः' प्रतीताः 'उदयेन' अनुभवेन 'वर्णनाम्नः' कर्मणः / इति गाथार्थः॥११४॥ उक्तं वर्णनाम, गन्धनामाह-- (पारमा०) वर्ण्यतेऽलंक्रियते शरीरमनेनेति वर्ण: / तत्र कृष्णनीललोहितहारिद्रशुक्ला जीवदेहानां वर्णा वर्णनाम्न उदयेन भवन्ति / इदमुक्तं भवति-कृष्णवर्णनाम्न उदयात्कृष्णदेहो मवतीति / नीलवर्णनाम्न उदयात्रीलदेह इत्यादि / इति गाथार्थः // 114|| गन्धनाम्नो द्विविधस्यापि विपाकमाह-- गंधेण सुरभिगंधं, अहवा गंधेण दुरभिगंधं तु / होइ जिया'णं देहं. उदएणं गंधनामस्स // 115 // (पू०) व्याख्या-घाणेन्द्रियास्वाद्येन 'सुरभिगन्ध' शोभनगन्धम् / अथवा गन्धेन 'दुरमिगन्धं तु दुष्टगन्धमेव 'भवति' जायते 'जीवानां' प्राणि नां 'देहः' शरीरं 'उदयेन' अनुभवेन 'गन्धनान्नः' कर्मणः / इति गाथार्थः // 115 / / उक्तं गन्धनाम, रसनाम प्राह (पारमा०) गन्ध्यते आघ्रायते इति गन्धः, तनिबन्धनं नाम गन्धनाम / सुष्ठ रभते : सुरभिः, ततश्च गन्धेन सुरभिगन्धम् / अथवा गन्धेन दुरभिगन्धं तु दुष्टं अभि आभिमुख्यं यत्र एवंभूतं जीवानां देहं, सुरभिदुरभिभेदभिन्नस्य गन्धनाम्न उदयेन भवति इति गाथार्थः // 115 // रसनाम प्रतिपादयति 'तित्तकडुया कसाया, अंबिलमहुरा रसावि पंच भवे। तेवि हु जियदेहाणं, रसनामुदएण खज्जंता // 116 // (पू०) व्याख्या-तिक्ताश्च कटुकाश्च तिक्तकटुकाः तिक्ताः कटुकाद्याः, कटुकाः शुण्ठ्यादयः, कषाया हरीतक्याद्याः, अम्ला बीजपूरादयः, मधुरा इक्ष्वादयः रसास्तु पञ्चैव भवन्ति, लवणरसः सर्वानुयायित्वान्न पृथगुक्तो जा(ज्ञा)यते न केवलं 'रसादयः, तेऽपि जीवदेहानामेव' प्राणिशरीराणामेव 'रसनाम्नः' कर्मणः 'उदयेन' अनुभवेन 'वाद्यमानाः' भक्ष्यमाणाः / हुशब्दस्यैवकारार्थत्वात् / इति गाथार्थः // 116 // उक्तं रसनाम, साम्प्रतं स्पर्शनामाह (पारमा०) तिक्तककटुककषायअम्लमधुरा रसा अपि पश्च, न केवलं वर्णाः, किं तु रसा अपि पञ्च जीवदेहाना खाद्यमाना रसनाम्नः पञ्चप्रकारस्योदयेन भवेयुः / लवणस्य तु एतदनु- - १"cण शरीरं" इत्यपि पाठः / 2 नां शरीरं देहं उ० जे० / 3 "तित्तगकडुयकसाया” इत्यपि पाठः। 4 "रसा उ" इति व्याख्याकाराः। 5 वर्णादयः जे०।