________________ संस्थाननाम-वर्णनामस्वरूपफलादिवर्णनम कर्षण उदयद्व रेण समचतुरस्रस्वरूपमाह (पारमा) तत्र समास्तुल्या यथोक्तप्रमाणाश्चतस्रोऽस्मयश्चतुर्दिग्विभागोपलक्षिताः शरीरावयवा यस्य तत्समचतुरस्त्रम् / समासान्तोऽत्प्रत्ययः / न्यग्रोधवत्परिमण्डलं विस्तरभूरि न्यग्रोधपरिमण्डलम् / यथा न्यग्रोध उपरि संपूर्णावयवोऽधस्तु हीनः, तथा यत्संस्थानं नाभेरुपरि संपू प्रमाणं, अधस्तु न तथा तन्न्यग्रोधपरिमण्डलम् / यत्र नामेरधः सर्वावयवाः समचतुरस्रलक्षणाऽविसंवादिनः, उपरि तु न तदनुरूपास्तत् 'सादि उत्सेधबहुसंस्थानं, सादीति शाल्मलीतरुमाच- , अते प्रावचनिकाः / तस्य हि स्कन्धो द्राधीयान् , उपरि तु न तदनुरूपा विशालतेति / तथा यत्र शिरो ग्रीवं हस्तपादादिकं च यथोक्तप्रमाणोपपन्नं कोष्ठं उरउदारादि मडहं लघु तद्वामनसंस्थानम् , कुज्ञमित्यन्ये / यत्र तु उरउदरादि यथोक्तप्रमाणोपेतं, अधस्तनकायस्तु पादादिः, उपलक्षणत्वात् शिरोग्रीवादिकं च मडहं लघु भवति तत्कुजम् , वामनमित्यन्ये / यत्र सर्वेऽप्यवयवा असंस्थिता यथोक्तप्रमाणहीनास्तत् हुण्डसंस्थानम् / तेषां स्वरूपमिदं तुल्यादिकं भवति / इति गाथार्थः // 111 // 112 / / एतदुदयमादर्शयति जस्सुदएणं जीवे, चउरंसं नाम होइ संठाणं / तं चउरंसं नाम सेसावि हु एव संठाणा // 113 // . (पू०) व्याख्या-'यस्य' कर्मणः 'उदयन' अनुभवेन 'जीवे' जीवस्य 'चतुरस्र' ऊर्ध्यावस्थितसूत्रसमं "तिर्यक्प्रमाणं चतुरस्रमुच्यते संस्थानं भवति' जायते 'नाम' संज्ञा स्फुटं वा 'संस्थानम्' आकारविशेषस्तच्चतुरस्र नाम / 'शेषाण्यपि' न्यग्रोधमण्डलादीन्यप्येवमेव संस्थानानि द्रष्टव्यानि। 'अपि' समुच्चये, 'हुः पादपूरणे, समचतुरस्त्रसंस्थानोक्तन्यायेनेति भावः। इति गाथार्थः // 113 / / उक्त संस्थाननाम, वर्णनामाह (पारमा०) 'यस्य' कर्मण उदयाच्चतुरस्र नाम संस्थानं भवति जीवस्य तच्चतुरस्रनाम समचतुरस्रसंस्थाननाम / शेषाण्यपि संस्थानान्येवमेव / इति गाथार्थः॥११३॥ उक्त संस्थानम् , सम्प्रति वर्णनाम, तच्च पञ्चधा, तदुदयाच्च यद्भवति तदाह 'किण्हानीलालोहिय, हालिद्दा तह य हुति 'सुकिलया। जियदेहाणां वण्णा उदएणं वन्नन्नामस्स // 114 // 1-2 साचि इत्यपि पाठः / 3 तिर्यक् समानं चतु० जे० / 4 व्याख्याकारेण व्यस्ततया व्याख्यातम् , एवमग्रेऽपि // 5 “सुक्का य” इति वृत्त्योः //