________________ 6.] कर्मविपाकाख्ये प्रथमे कर्मग्रन्थे प्राकृतत्वात् , 'संधयणा' [संहननानि] / उक्तनीतिश्चेयम्-वज्रऋषभनाराचसंहननं यस्य कर्मण 'उदयेन प्रादुर्भवति तद्वऋषभनाराचसंहननं यथोच्यते, तथा ऋषभनाराचनारायार्द्धनाराचकीलिकाछेवट्ठानि यस्य कर्मण उदये भवन्ति तान्यपि तथा ऋषभनाराचनाराचार्द्धनाराचकीलिकाछेवट्ठनामान्यन्वर्थत उच्यन्ते इत्येवशब्दार्थः / इति गाथार्थः // 11 // उक्तानि संहननानि, अधुना संस्थानान्याह (पारमा०) 'यस्य' कर्मण उदयेन 'जोवे' इति जीवस्य संहननं भवति, 'वज्रर्षभं तु' इति सूचनात् वज्रर्षभनाराचं तद् वज्रर्षभनाराच नाम / शेषाण्यपि संहननानि एवमेव / हुशब्दस्यैवकारार्थस्यात्र योगात् / इति गाथार्थः // 11 // संस्थाननामाह___समचउरंसे नग्गोहमंडले साइवामणे खुज्जे / हुंडेवि य संठाणे, तेसि सरूवं इमं होइ // 111 // तुल्लं वित्थडबहुलं, उस्सेहबहु च मडह'कोट्टं च / हिडिल्लकायमडह, सव्वत्थासंठियं हुडं // 112 // (पू०) व्याख्या-समचतुरस्र यस्मिन् तत्समचतुस्र संस्थानमिति सर्वत्र संबन्धनीयम् ; मन्त- : व्यमिति क्रिया / न्यग्रोधस्येव मण्डलं यस्मिन् तन्न्यग्रोधमण्डलम् / सातिः शक्तिः / तथा वामनकुब्जे प्रतीते / हुण्डमपि च संस्थानं मन्यव्यमिति / तेषां च स्वरूपं 'इम' वक्ष्यमाणलक्षणम् / / 111 // लक्षणमाहतुल्यं समपादाङ्गुष्ठाग्रादारभ्य केशान्तं यावत्स्थितमूर्ध्वं यत्सूत्रं तावन्मात्रमेव तिर्यप्रसारितयोभुजयोः प्रमाणसूत्रमेवंभूतं तुल्यं समचतुरस्रसंस्थानमुच्यते / “विस्तारो बहुर्यस्मिन् तद्विस्तरबहु, प्राकृतत्वावह्वर्थे लच् / यस्मिन् विस्तारो वटस्येव बहु दैयं पुनः स्तोकं तद्विस्तरबहुलं न्यग्रोधमण्डलं संस्थानमुच्यते द्वितीयम् / उत्सेधो बहुर्यस्मिन् तदुत्सेधबहु उच्चस्त्वयुक्तं च / सातिसंस्थानेनोपमीयते सातिः शक्तिरुच्यते, शक्तिवद्यस्पिन् पुरुषस्य शिरोऽधोबाहुविस्तरस्तोकस्तत्सातिसंस्थानं तृतीयम् / मडहं कोष्ठं यस्मिन् तन्मडहकोष्ठम् , कोष्ठमुदरं तच्च वामनसंस्थानं चतुर्थम् / हेठिल्लकायोऽधःकायः स मडहो यत्र तद् हेठिल्लकायमडहं कुब्जसंस्थानं पश्चमम् / सर्वत्र शिरःप्रभृत्यगावयवेषु न विद्यते संस्थितियस्मिन्नो लङ्ककव त्सर्वावयवन्यूनं तद् हुण्डसंस्थानं षष्ठम् / इति गाथार्थः // 112 // 1 उदये भवति त० जे०।२ "संठाणा जीवाणं छ मुणेयव्वा // 111 // " इत्यपि पाठः 3 “कुटु” इत्यपि पाठः। 4 विस्तरो जे० / 5 तद्विस्तार० जे० / 6 कुब्जं सं०। 7 लोललडुकवत् जे० टिप्पणी / तत्सर्वावयवानां तद् हुण्डसंज्ञं संस्थानं ष. जे।