________________ संघातन-संघयणनामस्वरूपफलादिवर्णनम् [ 56 तथाहि रिसहो य होइ पट्टो, वज पुण कीलिया मुणेयव्वा / उभओ' मक्कडबंध नारायं तं वियाणाहि // 109 // (पू०) व्याख्या-ऋषभस्त्वागमभाषया दीर्घोऽल्पबाहल्यः, पृथुत्वयुक्तः कपाटादिषु लोहपट्टकाकारः पट्टोऽभिधीयते / वज्र पुनः कीलिका मन्तव्या, सा च प्रतीता / उभयतो द्वयोरपि पार्श्वयोर्मर्कटबन्धः प्रतीतः, स विद्यते यस्मिन् संहनने तन्नाराचसंहननं 'विजानीहि' अवबुध्यस्व / अयमत्र भावार्थः-यथा हस्तयोरुभयतो मर्कटबन्धेन कलाचीग्रहणे मध्यदेशे लोहपट्टकेन वेष्टयित्वा पट्टबन्धनमध्यदेशे वेधं दत्त्वा कीलिका प्रक्षिप्यते, तस्यां प्रक्षिप्तायां यादृशः सञ्चयो भवत्यचलः कालान्तरस्थायी बलवांस्तथाऽस्थिसञ्चयो यस्मिन् संहनने सति भवति तत्संहननं वज्रऋषभनाराचं भवति / इति गाथार्थः // 10 // मंहननोदयद्वारेण वज्रऋषभनाराचसंज्ञामाह (पारमा०) -ऋषभः परिवेष्टनपट्टो भवति / वज्र कीलिका ज्ञातव्या / उभयतो मर्कटचन्धं नाराचं तद्विजानीहि / अयमर्थः-द्वयोरस्थनोरुभयतो मर्कटबन्धेन बद्धयोः पट्टाकृतिना तृतीयेनास्थना परिवेष्टितयोरुपरि तदस्थित्रयभेदि कीलिकापरपर्यायं वज्रनामकमस्थि यत्र भवति तद्वर्षभनाराचम् / यत्पुनः की लेकारहितं तद् ऋषभनाराचम् / यत्र पुनः कीलिकया ऋषभसंज्ञपट्टेन च रहितो मर्कटबन्धो भवति तन्नाराचम् / यत्र त्वेकपा मर्कटबन्धो द्वितीयपावें च कीलिका भवति तदर्द्धनाराचम् / यत्र त्वस्थीनि कीलिकामात्रबद्धान्येव भवन्ति तत्कीलिका / यत्र तु परस्परं पर्यन्तसंस्पर्शलक्षणां सेवामाऋतान्यागतान्यस्थीनि भवन्ति स्नेहाभ्यवहारतैलाभ्यङ्गविश्रामणादिरूपां च परिशीलनां नित्यमपेक्षते तत्सेवार्तम् / इति गाथाद्वयभावार्थः॥१०॥ एतद्विपाकदर्शनायाह जस्सुदएणं जीवे, संघयणं होइ बजरिसहं तु। तं वज्जरिसहनाम, सेसावि हु एव संघयणा // 110 // (पू०) व्याख्या-'यस्य' कर्मणः 'उदयेन' अनुभवेन 'जीवे' प्राणिनि 'संहनन' उक्तलक्षणं भवति' जायते वज्रऋषभनाराचं' उक्तस्वरूपं, 'तुः' एवकारार्थः, स च व्यवहितः प्रासंबध्यत उदयेनैवेत्यत्र, तद्वऋषभनाराचनामोच्यते / शेषाण्यपि न केवलमिदं प्रागुक्तम् , 'हुः पादपूरणे, ऋषभनाराचादीन्यपि इत्यपिशब्दार्थः / 'एवं' उक्तनीत्या, लुप्तानुस्वारः 1 "अ" इत्यपि पाठः / 2 “मक्कडबंधो” इत्यपि पाठस्तत्पाठानुस"रो व्याख्याकाराः //