________________ 58] कर्मविपाकाख्ये प्रथमे कमेग्रन्थे (पारमा०) संघातनाम 'अधुना' बन्धननामानन्तरं भण्यत इत्यध्याहारः / व्युत्पत्तिमाह'संघातयति' पिण्डीकरोति औदारिकादिपुद्गलान् येन तेन हेतुना संघातमुच्यते / तच्च पञ्चधेत्याह-औदारिकसंघात, वैक्रिय संघातं, यावत्करणादाहारकसंघातं, तैजससंघातं, कार्मणसंघातम् / इति गाथार्थः / / 106 / / एतद्वयाचष्टे ओरालाई जे देहपुग्गला 'होति जम्मि ठाणम्मि / ते ठंति तम्मि ठाणे. संघायण कम्मणो उदए॥१०७॥ (पू०) व्याख्या-औदारिकमादिर्येषां ते औदारिकादयः, आदिशब्दा क्रियाहारकतैजसकार्मणपुद्गलपरिग्रहः / ये देहे पुद्गला देहपुद्गलाः भवन्ति' जायन्ते यस्मिन् स्थाने ते औदारिकादयः पुद्गलास्तस्मिन्नेव स्थाने भवन्ति नापरत्र, संघातनकर्मणः 'उदये' प्रादुर्भावे / अयमत्र भावार्थः-ये ह्यौदारिकादिषु शरीरेषु शिरःप्रभृत्यवयवानां निवर्तका औदारिकादिपुद्गला ये यस्य स्थानस्य योग्यास्ते तस्मिन्नेव शिरःप्रभृतिस्थानके भवन्ति / न विपर्ययेण यस्य कर्मणः प्रभावात्तत्संघातननामकर्मोच्यते / इति गाथार्थः / / 107 / / उक्तं संघातनाम, अधुना संहननान्याह (पारमा०) औदारिकादयो ये देहपुद्गला यस्मिन् स्थाने भवन्ति ते संघातकर्मण उदयेन तस्मिन् स्थाने तिष्ठन्ति / अयमभिप्रायः-ये औदारिकपुद्गला यत्र योग्यास्तान् तत्र संघातयति यत्कर्म निजोदयात् / यथा शिरोयोग्यान् शिरसि, पादयोग्यान पादयोः शेषाङ्गयोग्यान शेषाङ्गेषु, तदौदारिकसंघातनाम / एवं वैक्रियाहारकतैजसकार्मणेष्वपि वाच्यम् , इति गाथार्थः // 10 // सम्प्रत्यस्थिरचनात्मकस्य संहननस्यावसरः, तच्चौदारिकशरीर एव नान्येषु, तेषामस्थिरहितत्वात् , तच्च षोढेत्याह वजरिसहनारायं रिसहं नारायमद्धनारायं। कीलिय तह छेवट्ठं, तेसि सरूवं इमं होइ // 108 // . (पू०) व्याख्या-वज्रऋभनाराचं प्रथममाय, द्वितीयं च ऋषभनाराचं, नाराचं तृतीयं, अर्द्धनाराचं चतुर्थ, कीलिका पञ्चमं, तथा षष्ठं पुनश्छेवट्ठ (सेवार्त) संहननं भवतीति ज्ञातव्यम् / इति गाथार्थः // 108 // ऋषभादीन् व्याख्यानयत्राह (पारमा०) वज्रऋषभनाराचं ऋषभं इत्युक्ते ऋषभनाराचमिति द्रष्टव्यम् / नाराचं, अर्द्धनाराचं, कीलिका, तथा सेवार्तम् / तेषां स्वरूपमिदं भवति // 108 // 1 "हुति" इत्यपि पाठः / 2 'हुति" इत्यपि पाठस्तदनुसारेण व्याख्याकारैर्व्याख्यातम् / 3 “कम्मुणो” इत्यपि पाठः / 4 “वजरिसहनारायं पठमं बीअं च रिसहनारायं / नारायमद्धनारायकीलिया तह य छेवटै // 108 // इत्यपि पाठः, एतत्पाठानुसारेण व्याख्याकारैयाख्यातम् /